Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 775
________________ 746 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [OF: ___यद्वा विष्णोः विष्णुर्वा एतासामृषिः, विश्वामित्रस्य वा सम्बनिधन्यः तदृषिका इत्यर्थः । यद्वा एता ऋचः सिमाः एताभिः वृत्रासुरस्य सीमानं शिरोमध्यदेशमिन्द्रोऽभिनदिनि सिमानाम । यद्वा मह्नयाः अनुकरणशब्दोऽयम्, एताभिः मह्वयाशब्दमिन्द्रोऽकार्षीदिति पता मह्नयानामिकाः । अथवा अ . . . रतो योगवत्य इत्यर्थः । अथवा शकर्यः एताभिर्वृत्रं हन्तुं इन्द्रश्शक्तोऽभूदिति एताश्शक्करीसंशिताः । एतत्सर्वं पञ्चविंशब्राह्मणे त्रयोदशाध्याये प्रदर्शितम् । “इन्द्रः प्रजा पतिमुपाधावत् वृत्रं हनामीति तस्मा एतच्छन्दोभ्य इन्द्रियं वीर्य निर्माय प्रायच्छदेतेन शक्नुहीति तच्छक्करीणां शक्करीत्वं सिमानमभिनत्तत्सिमा मह्नयमकरोत्तन्मया महान् घोष आसीत् तन्महानाम्न्यो दिशः," इति । विश्वामित्रस्य सम्बन्धः शाखान्तराभिप्रायेण दर्शितः। शक्कों वेत्यभ्यास आर्षेयब्राह्मणसमाप्तिद्योतनार्थः ॥ षष्टाध्याये चतुर्थपर्वणि द्वितीयः खण्डः ॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कभूपाल साम्राज्यघुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे आर्षेयब्राह्मणे षष्ठाध्यायस्समाप्तः ॥ आर्षेयब्राह्मणव्याख्यानं समाप्तम् ॥ प्रतिपाद्यविषयः सामसाक्षात्कर्तृतत्तदृषिनामगोत्रादिनिर्देशपरस्यायब्राह्मणस्य सा. मवेदीयस्य ललितया वाक्यशैल्या विवरणमत्र भाष्य दृश्यते ॥ वक्तव्यविशेषः कोशेऽस्मिन् भाष्यमिदं समग्रं दृश्यते मुद्रित च ॥ No. 665 (4969). षडिशब्राह्मणभाष्यम्. Sadvimsa Brahmana Bhasyam. Author-Sāyaṇācāryā. Size-143 x 1.4 inches, Substance-Palm-leaf, l Character— Nāgarī, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830