Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 779
________________ 750 DESCRIPTIVE CATALOGUE OF SANSKRIT ISS. [वेद:. उपसंहारः सोऽयं ब्रह्म ह वा इदमग्र आसीदित्येत्पर्यन्तो (दित्यारभ्यैतत्पर्यन्तो) यस्साम्नां विधिरुक्तः सोऽयं प्राजापत्यः प्रजापतिना विश्वमृजा सर्वज्ञेन चतुर्मुखब्रह्मणा दृष्टो न हि तस्योपदेष्टा कश्चिदपि सम्भवति । स प्रजापतिवृहस्पतये प्रोवाचेत्यादि बहुभ्य इत्यन्तं स्पष्टम् । विष्वक्सेनोऽप्यषिरेव तत्प्रकरणत्वात् । सन्ति बहवो व्यासाः, 'द्वापरे व्यासः, इत्यादिस्मृतः। 'अतो विशेष्यतो(ते) व्यासाय पाराशर्यायेति । बादरायण इति व्यासादन्यस्य कस्यचिदृषेस्संज्ञा । सोऽयं सम्प्रदायप्राप्तो विधिरनूचानाय अङ्गाध्याय्यनूचानस्तस्मै ब्रह्मचारिणे अनुष्ठितगुरुकुलवासादिनियमाय समावर्तमानाय गुरुकुलाब्रह्मचर्य समाप्य स्वगृहं प्रत्यावर्तमानायास्य उपदेष्टव्यः । उपाध्यायाय सामविधानोपदेष्ट्रे ग्रामवरं श्रेष्ठं ग्राम सहस्रसङ्ख्याकं धनं श्वेतं चाश्वं प्रदाय अयं शिष्येण प्रयोक्तव्यः ॥ यद्येतानि दातुं न शक्नुयात् स शुश्रूषया अल्पधनप्रदानेन चापाध्यायं तोषयित्वा तेनानुज्ञातस्सन् उक्तविधानेन सामानि प्रयुआनो यं यं कामं कामयितव्यं फलं कामयते तमवाप्नोति । अभ्यासस्समाप्त्यर्थः । तृतीयाध्याये नवमः खण्डः ॥ श्रीमद्राजाधिराजराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुकभूपाल साम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशके सामविधानाख्ये ब्राह्मणे तृतीयोऽध्यायः॥ प्रतिपाद्याविषयः अष्टादिस्वरसामाध्ययनप्रतिनिधितत्तत्काम्यकानुष्ठानाद्याभिधान • परस्य सामविधानाख्यसामवेदीयकौथुमशाखागतब्राह्मणस्य विवरणमत्र भाष्ये दृश्यते । प्रतिपाद्यविषयश्च No. 150 तमकोशे दृष्टव्यः ॥ वक्तव्यविशेषः कोशेऽस्मिन् इदं भाष्यं समग्रं दृश्यते, मुद्रितं च ॥ 1' अत' इत्यारभ्य — संज्ञा' इत्यन्तं मुद्रितकोशे न दृश्यते. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830