Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 784
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, IYSORE 755 नारायणमुखात् श्रूयन्ते धर्माः, शृणुत । सर्वा एषा सृष्टिस्समुपत्यति क्षराक्षराभ्यामधिकः पुरुषोत्तमसंज्ञितो भक्तिगम्यः । आनन्दमयो लोकः सविराजते तस्य । पुरुषोत्तमस्य उत्तरकटाक्षात् समुत्पन्ना जीवास्ते भक्तिमार्गीया भवन्ति । ये उत्तरकटाक्षात्समुत्पन्नाः जीवास्तेषां स्नेहमार्गोऽयमापद्यत । दक्षिणकटाक्षादुत्पन्नाः कर्मजडा आसुरा अन्योपासका भवन्ति । तस्मिन् रसिकानन्दस्वरूपात् पाश्र्वात द्वावेव मूर्तिः प्रकटिता? प्रथमं भक्तिसुन्दरी प्रकटिता। पश्चात् मायादासी प्रकटिता। ताभ्यां प्रथमा अत्यन्तं वल्लभा आस्तां । भक्तेस्सकाशादुत्पन्ना जीवाः स्नेहमार्गीया भवन्ति । मायायास्समुत्पन्ना आसुराः कर्मजडा अन्यधर्मरता एव भवन्ति ॥ उपसंहारः कामक्रोधामयोयं ते गुणाः साधनरूपा भवन्ति । अहो रसमार्ग प्राप्यमानोऽयं ? जीवसङ्घ आत्मानं तन्मयतया वासनात्मकं लिङ्गं विधूय आत्मा भावो अभ्यस्यतां सेवायां तन्मयतां प्राप्तवानिति यां यां वासनां आत्मा लीयमानो भवति तत्तद्भावेन तं लिङ्गं चोत्पद्यमानो आसेदिवानिति अत्यन्तासक्ततया मार्गोऽयं लिङ्गं विधूय पापमाभावापन्नो भवेत् । य एषोऽयं मार्गस्तेनव? कथितः। अयं मार्गो देवादिना न ज्ञातः । रुद्रादिना न ज्ञातः । यं मण्डलमुपास्यमानो श्रूयमाणो ध्यायमानो? तन्मयतां प्राप्यमाणः इदं रहस्यं कथितं न वाचनीयं कस्यचित् त्वया । स्वेष्टं हृदि ध्यात्वा तद्भावेन प्रलीयते । अहो लक्ष्मी इमं मार्ग समाश्रिता भक्ता शरीरसोपाधिधर्मा तद्रुणतां प्राप्यते ॥ इति सामगा निरन्तरं रहसि सङ्गीयमाना भवन्ति । ॥ समाप्तमेवैतत् सामवेदरहस्योपनिषदम् ॥ प्रतिपाद्यविषयः अस्यामुपनिषदि कचिन्नारदगोपिकासंवादेन क्वचित् भ्रमरशुकसंवादेन च मोक्षोपायप्रदर्शनपूर्वकं सृष्टिक्रमविवरणपूर्वकं च भक्तिमार्गपोषणाय भगवतः क्रीडारसपरीवाह उपवर्ण्यते ॥ वक्तव्यविशेषः अमुद्रितेयमुपनिषत् । बह्वशुद्धसंदूषितं चैतल्लेखनम् ॥ D.C.M. .18* Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830