________________
उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, IYSORE 755
नारायणमुखात् श्रूयन्ते धर्माः, शृणुत । सर्वा एषा सृष्टिस्समुपत्यति क्षराक्षराभ्यामधिकः पुरुषोत्तमसंज्ञितो भक्तिगम्यः । आनन्दमयो लोकः सविराजते तस्य । पुरुषोत्तमस्य उत्तरकटाक्षात् समुत्पन्ना जीवास्ते भक्तिमार्गीया भवन्ति । ये उत्तरकटाक्षात्समुत्पन्नाः जीवास्तेषां स्नेहमार्गोऽयमापद्यत । दक्षिणकटाक्षादुत्पन्नाः कर्मजडा आसुरा अन्योपासका भवन्ति । तस्मिन् रसिकानन्दस्वरूपात् पाश्र्वात द्वावेव मूर्तिः प्रकटिता? प्रथमं भक्तिसुन्दरी प्रकटिता। पश्चात् मायादासी प्रकटिता। ताभ्यां प्रथमा अत्यन्तं वल्लभा आस्तां । भक्तेस्सकाशादुत्पन्ना जीवाः स्नेहमार्गीया भवन्ति । मायायास्समुत्पन्ना आसुराः कर्मजडा अन्यधर्मरता एव भवन्ति ॥ उपसंहारः
कामक्रोधामयोयं ते गुणाः साधनरूपा भवन्ति । अहो रसमार्ग प्राप्यमानोऽयं ? जीवसङ्घ आत्मानं तन्मयतया वासनात्मकं लिङ्गं विधूय आत्मा भावो अभ्यस्यतां सेवायां तन्मयतां प्राप्तवानिति यां यां वासनां आत्मा लीयमानो भवति तत्तद्भावेन तं लिङ्गं चोत्पद्यमानो आसेदिवानिति अत्यन्तासक्ततया मार्गोऽयं लिङ्गं विधूय पापमाभावापन्नो भवेत् । य एषोऽयं मार्गस्तेनव? कथितः। अयं मार्गो देवादिना न ज्ञातः । रुद्रादिना न ज्ञातः । यं मण्डलमुपास्यमानो श्रूयमाणो ध्यायमानो? तन्मयतां प्राप्यमाणः इदं रहस्यं कथितं न वाचनीयं कस्यचित् त्वया । स्वेष्टं हृदि ध्यात्वा तद्भावेन प्रलीयते । अहो लक्ष्मी इमं मार्ग समाश्रिता भक्ता शरीरसोपाधिधर्मा तद्रुणतां प्राप्यते ॥ इति सामगा निरन्तरं रहसि सङ्गीयमाना भवन्ति ।
॥ समाप्तमेवैतत् सामवेदरहस्योपनिषदम् ॥ प्रतिपाद्यविषयः
अस्यामुपनिषदि कचिन्नारदगोपिकासंवादेन क्वचित् भ्रमरशुकसंवादेन च मोक्षोपायप्रदर्शनपूर्वकं सृष्टिक्रमविवरणपूर्वकं च भक्तिमार्गपोषणाय भगवतः क्रीडारसपरीवाह उपवर्ण्यते ॥ वक्तव्यविशेषः
अमुद्रितेयमुपनिषत् । बह्वशुद्धसंदूषितं चैतल्लेखनम् ॥ D.C.M.
.18*
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com