Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 776
________________ ब्राह्मणं, भाष्यं च GOVERNMENT ORIENTAL LIBRARY, MYSORE 747 Folios-1-84. Lines on a page-6. Letters in a line-59. Age of Ms.-Old. Condition of Ms. -Good. | Correct or incorrect ___Correct. | Coinplete or incomplete Incomplete. उपक्रमः-- यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ तत्कटाक्षेण तद्रूपं दधडक्कमहीपतिः । आदिशत्सायणाचार्य वेदार्थस्य प्रकाशने ॥ ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसङ्गहात् । कृपालुस्सायणाचार्यो वेदार्थ वक्तुमुद्यतः ॥ व्याव्यातावृग्यजुर्वेदौ सामवेदेऽपि संहिता । व्याख्याता 'ब्राह्मणस्याद्य प्रौढव्याख्यानमादरात् ॥ अथ द्वितीयं षडिशब्राह्मणं व्याचिकीर्षति ॥ अस्मिन् षड्रिंशे ब्राह्मणे पूर्वत्रानुक्तानि यानि कर्माण्युक्तानामपि ये भेदास्तेऽनुवर्ण्यन्ते। तत्र प्रथमं सुब्रह्मण्योच्यते, ततः सवनत्रये विज्ञेयं, ततो विश्वरूपागानं, ततो ब्रह्मकर्तव्यम् , ततो व्याहृतिहोमादिकम्, ततः प्रायश्चित्तम्, ततस्सौम्यचरुविधिः, ततो बहिष्पवमानधर्माः, ततः किञ्चित्प्रकीर्णकम्, ततो होत्राद्युपहवाः, तत आविज्येषु ऋत्विगादि. विज्ञेयम्, ततो नैमित्तिका होमाः, ततः ऋत्विग्वरणप्रशंसा, ततो विज्ञेयं कर्म, ततोऽवभृथः, ततोऽभिचारादिशंसिता विष्णुतयः, ततो द्वादशाह. स्तुतिः, अथ श्येनादिविधिः ततो वैश्वदेवसत्रम्, इत्येवं प्रतिपाद्यानामर्थानामनुक्रमणी । तत्र प्रथमं तावत् उत्तरदेशे सुब्रह्मण्यो नाम ऋत्विक सुब्रह्मण्यामाह्वयतीति विवक्षयेदमाम्नायते-ओं ब्रह्म च वा इदमग्रे सुब्रह्म चास्तामिति ॥ उपसंहारः अग्निहोत्रे सवनत्रयं सम्पादयति, यद्गाहपत्ये जुहोति तत्प्रातस्सवनं, यद्दक्षिणाग्नौ जुहोति तन्माध्यन्दिनं सवनम्, यदाहवनीये जुहोति तत्तृतीयसवनमिति ॥ I'ब्राह्मणं चाद्यं प्रौढं व्याख्यातमादरात्' इति शुद्धः पाठः. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830