Book Title: Maisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Author(s): M S Basavalingayya, T T Srinivasgopalachar
Publisher: Oriental Library

Previous | Next

Page 774
________________ ब्राह्मणं, भाष्यं च GOVERNMENT ORIENTAL LIBRARY, MYSORE 745 उपक्रमः यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्द विद्यातीर्थमहेश्वरम् ॥ तत्कटाक्षेण तद्रूपं दधदुकमहीपतिः । आदिशत्सायणाचार्य वेदार्थस्य प्रकाशने ॥ ये पूर्वोत्तरभीमांसे ते व्याख्यायातिसङ्गहात् । कृपालुस्सायणाचार्यों वेदार्थ वक्तुमुद्यतः ॥ व्याख्यातावृग्यजुर्वेदौ सामवेदेऽपि संहिता । व्याख्याता ब्राह्मणस्याथ व्याख्यानं सम्प्रवर्तते ॥ अष्टौ हि ब्राह्मणग्रन्थाः प्रौढब्राह्मणमादिमम् । षड्विंशाख्यं द्वितीयं स्यात्ततस्सामविधिर्भवेत् ॥ आर्षेयं देवताभ्यायो भवेदुपनिषत्ततः।। संहितोपनिषद्वंशग्रन्था अष्टावुदीरिताः ॥ तत्र अथ खल्वयमार्षः प्रदेशो भवतीत्यादिकमायब्राह्मणं क्रमप्राप्त व्याख्यायते । तत्रादौ ब्राह्मणार्थ सङ्गा प्रदर्शयति-'अथ खल्ययमार्षः प्रदशो भवति' इति । अथेत्यानन्तये। खल्विति प्रसिद्धौ । अयमनेन ब्राह्मणेन प्रतिपाद्योऽर्थः आर्षः ऋषिसम्बन्धी प्रदेश उपदेशो भवति । कः पुनरसौ तमाह 'ऋषीणां नामधेयगोत्रोपधारणम्' इति । ऋषीणां नामधेयैः गोत्रैश्च, उपलक्षणमेतत् । ऋषिनामधेयगोत्रच्छन्दोदेवतादिवाचकेन शब्देन साम्नां वाच्यत्वानुज्ञानमुपधारणं, ईदृशोऽर्थोऽनेन ब्राह्मणेन प्रतिपाद्यत इत्यर्थः ॥ नन्वेवं ब्राह्मणान्तरवदत्रानुष्ठेयस्य कस्यचिदप्रतिपादितत्वात् तदध्ययनार्थज्ञानयोः पुरुषो न प्रवर्तत इत्याशङ्कयाह-'स्वर्ये यशस्यं धन्यं पुण्यं पुज्यं पशव्यं ब्रह्मवर्चस्यं स्मार्तमायुष्यम्' इति ॥ उपसंहारः ऐन्द्रयः इन्द्रसम्बन्धिन्यः माहानाम्न्यः इन्द्रवृत्रासुरयोः सङ्गामे इन्द्रस्य जयार्थ महान् घोष आसीदिति माहानाम्न्य इति नामैतासां सम्पन्नम् । अथवा एता ऋचः प्रजापतेस्सम्बन्धिन्यः प्राजापत्यऋषिका इत्यर्थः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830