________________
ब्राह्मणं, भाष्यं च GOVERNMENT ORIENTAL LIBRARY, MYSORE 745
उपक्रमः
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्द विद्यातीर्थमहेश्वरम् ॥ तत्कटाक्षेण तद्रूपं दधदुकमहीपतिः । आदिशत्सायणाचार्य वेदार्थस्य प्रकाशने ॥ ये पूर्वोत्तरभीमांसे ते व्याख्यायातिसङ्गहात् । कृपालुस्सायणाचार्यों वेदार्थ वक्तुमुद्यतः ॥ व्याख्यातावृग्यजुर्वेदौ सामवेदेऽपि संहिता । व्याख्याता ब्राह्मणस्याथ व्याख्यानं सम्प्रवर्तते ॥ अष्टौ हि ब्राह्मणग्रन्थाः प्रौढब्राह्मणमादिमम् । षड्विंशाख्यं द्वितीयं स्यात्ततस्सामविधिर्भवेत् ॥ आर्षेयं देवताभ्यायो भवेदुपनिषत्ततः।। संहितोपनिषद्वंशग्रन्था अष्टावुदीरिताः ॥ तत्र अथ खल्वयमार्षः प्रदेशो भवतीत्यादिकमायब्राह्मणं क्रमप्राप्त व्याख्यायते । तत्रादौ ब्राह्मणार्थ सङ्गा प्रदर्शयति-'अथ खल्ययमार्षः प्रदशो भवति' इति । अथेत्यानन्तये। खल्विति प्रसिद्धौ । अयमनेन ब्राह्मणेन प्रतिपाद्योऽर्थः आर्षः ऋषिसम्बन्धी प्रदेश उपदेशो भवति । कः पुनरसौ तमाह 'ऋषीणां नामधेयगोत्रोपधारणम्' इति । ऋषीणां नामधेयैः गोत्रैश्च, उपलक्षणमेतत् । ऋषिनामधेयगोत्रच्छन्दोदेवतादिवाचकेन शब्देन साम्नां वाच्यत्वानुज्ञानमुपधारणं, ईदृशोऽर्थोऽनेन ब्राह्मणेन प्रतिपाद्यत इत्यर्थः ॥
नन्वेवं ब्राह्मणान्तरवदत्रानुष्ठेयस्य कस्यचिदप्रतिपादितत्वात् तदध्ययनार्थज्ञानयोः पुरुषो न प्रवर्तत इत्याशङ्कयाह-'स्वर्ये यशस्यं धन्यं पुण्यं पुज्यं पशव्यं ब्रह्मवर्चस्यं स्मार्तमायुष्यम्' इति ॥
उपसंहारः
ऐन्द्रयः इन्द्रसम्बन्धिन्यः माहानाम्न्यः इन्द्रवृत्रासुरयोः सङ्गामे इन्द्रस्य जयार्थ महान् घोष आसीदिति माहानाम्न्य इति नामैतासां सम्पन्नम् । अथवा एता ऋचः प्रजापतेस्सम्बन्धिन्यः प्राजापत्यऋषिका इत्यर्थः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com