________________
738 DESCRIPTIVE CATALOGUE OF SANSKRIT USS. [à:तंव महिमानं विदुः जानन्ति । तेषां जानतां अनुष्ठातॄणां श्रवांसि अन्नानि उत्तिर वर्धय । इन्द्रमीशानमिति ॥ उपसंहारः
मा सा त इति । वाजप्रमहः वाजैर्धनैः प्रमहनीयेन्द्र ते त्वदीया सा सुमतिः शोभनानुग्रहरूपा बुद्धिः अस्मत् अस्मासु मा विदसत् मा विशुष्यतु । तथा इषः अन्नानि अस्मान् संवरन्त संवृतान् कुर्वन्तु । हे मघवन् इन्द्र अर्यः धनपतिः त्वं नः अस्मान् गोषु आभज प्रापय । ते तव मंहिष्ठाः अतिशयन स्तुतिभिः प्रवर्धयितारो वयं सधमादः स्याम पुत्रपौत्रादिभिः सह माद्यन्तो भवेम ॥ इति प्रथमस्य अष्टमे षड्विंशो वर्गः । इति प्रथमायके अष्टमोऽध्यायः ॥
॥ प्रथमाष्टकं सम्पूर्णम् ॥ प्रतिपाद्यविषयः
अत्र अग्नयादिदेवतास्तुतिपराणां तत्तत्क्रतुषु विनियुक्तानामृचां विवरणं उश्यते ॥ वक्तव्यविशेषः
अमुद्रितमिदं भाष्यम् ॥ कोशेऽस्मिन्निदं भाष्यं प्रथमाष्टके एकविशे वर्गे षष्ठीमृचमारभ्य प्रथमाष्टकसमाप्तिपर्यन्तं दृश्यते । ऋक्संहितासायणभाष्यपरिदृश्यमानान् व्याकरणप्रक्रियादिविशेषान् परित्यज्य तत्रत्य एव ऋगर्थवर्णनक्रमोऽत्र बालबोधाय मुद्गलनाना केनचिदाधुनिकेन संगृहीत इति भाति ॥ अत एव चादौ
आलोच्य पूर्वभाष्यं च बढ़चस्य समन्ततः। गहनं मन्यमानेन सुबोधेन समुद्धृतम् । नवनीतं यथा क्षीरासिकतायाश्च काञ्चनम् ।
तथा समुद्धृतं सारं बालानां बोधसिद्धये । मौद्गल्यगोत्रेण च मुद्गलेन ह्यात्मानुभूतेन सुसंस्कृतेन ।
यथार्थभूतेन सुसाधकेन समुद्धृतं सारमिदं वरिष्ठम् ॥ इति प्रतिक्षातं दृश्यते ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com