Book Title: Laghu Siddhant Kaumudi Part 04
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd
________________
५६६ ] सिद्धान्तकौमुदी। [समासस्वरउदराश्वेषुषु पूर्वमन्तोदात्त बहुव्रीही निन्दायाम् । घटोदरः। कटुकाश्वः । चला. चलेषुः । अनुदरः इत्यत्र 'नसुभ्याम्' (३६०३) इति भवति विप्रतिषेधेन । ३८४३ नदी बन्धुनि । (६-२-१०६) बन्धुशन्दे परे नद्यन्तं पूर्वमन्तोदात्तं बहुबीहो। गार्गीबन्धुः। नदी किम्-ब्रह्मबन्धुः। ब्रह्मशब्द आधुदात्तः। बन्धुनि किम्-गार्गी प्रियः। ३८४४ निष्ठोपसर्गपूर्वमन्यतरस्याम् । (६-२-११०) निष्ठान्तं पूर्वपदमन्तो. दातं वा । प्रधौतपादः । निष्ठा किम्-प्रसेवकमुखः। उपसर्गपूर्व किम्-शुष्कमुखः। 'सर्वधातुभ्यः-' इति इन् । श्रायुदात्तो हरिशब्दः । हरिरश्वोऽस्य हर्यश्वः । यणि कृते 'उदात्तस्वरितयोः-' इति स्वरितः । महेषुरिति । महच्छन्दोऽन्तोदात्तः। 'वर्तमाने पृषन्महत्-' इत्यत्र तथा निपातनात् । तथा च पूर्वपदप्रकृतिस्वरेणैव सिद्धे सति त्वन्यार्थ प्रारम्भोऽपवादवादनेनैवान्तोदात्तत्वम् । उदाहरणं तु सुवर्णपुढेषुरिति ज्ञेयम् । सुष्ठु वर्णो येषां ते सुवर्णाः । 'नदुःसुभ्याम्- 'इत्यन्तोदात्तम् । सुवर्णाः पुका येषां ते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरेण मध्योदात्तत्वं पुनरिषुशब्दे बहुवीही पूर्वपदमन्तोदात्तम् । एकादेशस्तु 'स्वरितो वानुदात्ते पदादौ' इति पक्षे स्व. रितः। घटोदर इति । घटशब्दः पचाद्यजन्तः । कटुकशब्दात्संज्ञायांकन । 'चरि'चलिपतिवदीनां वा द्वित्वमच्याकुचाभ्यासस्य' इति पचांद्यजन्तो चलाचलशब्दः । अनुदर इत्यादि । अस्यावकाशः । घटोदरः। 'नसुभ्याम्-' इत्यस्यावकाशः । अयशः । सुयशः । एवं स्थिते विप्रतिषेधः । नदी । बन्धुनीति शब्दस्वरूपापेक्षया नपुंसकनिर्देशः । 'गर्गादिभ्यो यज्' इति यअन्ताद्गर्गशब्दात् 'यअश्च' इति की । गार्गी । मित्स्वरेणायुदात्तः । ब्रह्मबन्धुरिति । 'बृहे!च्च' इति नकारस्याकारा. देशो मनिन्प्रत्ययश्चेति मनिनन्तो ब्रह्मशब्दो नित्स्वरेणायुदात्तः । तदाह ब्रह्म त्यादि । गार्गीप्रिय इति । अत्र पूर्वपदप्रकृतिस्वरे एव । निष्ठोपसर्ग । उपसर्गपूर्व निष्ठान्तं पूर्वपदमन्तोदात्तम् । प्रधौतपाद इति । धावु गतिशुद्धयोः क्तः ज्ञापकारपूर्व पूर्वोत्तरपदनिमित्तकार्यमिति स्वरोत्तरं यणादि । तेन 'उदात्तस्वरितयो'. रित्यादिप्रवृत्तिः अत्रापि सज्ञायामित्यनुवर्तत इत्याहुः। क्षेप। अक्षेपे सज्ञात्वाऽभावे पूर्वपदप्रकृतिस्वर एव। घटोदर इति। घटशब्दो वृषादित्वादाद्युदात्तः । कटुकशब्दस्तु कन्नन्तत्वात्तथा । चलाचलस्याऽजन्तत्वाञ्चलाचलेषुरित्युदाहरणं चिन्त्यम् । एवं महेषु. रित्यपि । अनुदर इत्यत्रेति । क्षेपे सज्ञायां चेदम् । अक्षेपेऽपि पूर्वपदप्रकृतिस्वराऽपवादत्वात्तदेव । 'सूदर' इत्यत्र ततोऽपि परत्वाद् 'उपसर्गात्स्वाङ्ग'मिति बोध्यम्। ब्रह्मशब्द इति। 'नन्विषयस्यै' त्यनेनाघुदात्तत्वम् , मनिनन्तत्वाद्वा, 'ब्रह्मा देवाना'मित्यादावन्तोदात्तत्त्वं तु छान्दसत्वात् । गार्गीप्रिय इति । गौरीप्रिय इति तु
Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716