SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ ५६६ ] सिद्धान्तकौमुदी। [समासस्वरउदराश्वेषुषु पूर्वमन्तोदात्त बहुव्रीही निन्दायाम् । घटोदरः। कटुकाश्वः । चला. चलेषुः । अनुदरः इत्यत्र 'नसुभ्याम्' (३६०३) इति भवति विप्रतिषेधेन । ३८४३ नदी बन्धुनि । (६-२-१०६) बन्धुशन्दे परे नद्यन्तं पूर्वमन्तोदात्तं बहुबीहो। गार्गीबन्धुः। नदी किम्-ब्रह्मबन्धुः। ब्रह्मशब्द आधुदात्तः। बन्धुनि किम्-गार्गी प्रियः। ३८४४ निष्ठोपसर्गपूर्वमन्यतरस्याम् । (६-२-११०) निष्ठान्तं पूर्वपदमन्तो. दातं वा । प्रधौतपादः । निष्ठा किम्-प्रसेवकमुखः। उपसर्गपूर्व किम्-शुष्कमुखः। 'सर्वधातुभ्यः-' इति इन् । श्रायुदात्तो हरिशब्दः । हरिरश्वोऽस्य हर्यश्वः । यणि कृते 'उदात्तस्वरितयोः-' इति स्वरितः । महेषुरिति । महच्छन्दोऽन्तोदात्तः। 'वर्तमाने पृषन्महत्-' इत्यत्र तथा निपातनात् । तथा च पूर्वपदप्रकृतिस्वरेणैव सिद्धे सति त्वन्यार्थ प्रारम्भोऽपवादवादनेनैवान्तोदात्तत्वम् । उदाहरणं तु सुवर्णपुढेषुरिति ज्ञेयम् । सुष्ठु वर्णो येषां ते सुवर्णाः । 'नदुःसुभ्याम्- 'इत्यन्तोदात्तम् । सुवर्णाः पुका येषां ते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरेण मध्योदात्तत्वं पुनरिषुशब्दे बहुवीही पूर्वपदमन्तोदात्तम् । एकादेशस्तु 'स्वरितो वानुदात्ते पदादौ' इति पक्षे स्व. रितः। घटोदर इति । घटशब्दः पचाद्यजन्तः । कटुकशब्दात्संज्ञायांकन । 'चरि'चलिपतिवदीनां वा द्वित्वमच्याकुचाभ्यासस्य' इति पचांद्यजन्तो चलाचलशब्दः । अनुदर इत्यादि । अस्यावकाशः । घटोदरः। 'नसुभ्याम्-' इत्यस्यावकाशः । अयशः । सुयशः । एवं स्थिते विप्रतिषेधः । नदी । बन्धुनीति शब्दस्वरूपापेक्षया नपुंसकनिर्देशः । 'गर्गादिभ्यो यज्' इति यअन्ताद्गर्गशब्दात् 'यअश्च' इति की । गार्गी । मित्स्वरेणायुदात्तः । ब्रह्मबन्धुरिति । 'बृहे!च्च' इति नकारस्याकारा. देशो मनिन्प्रत्ययश्चेति मनिनन्तो ब्रह्मशब्दो नित्स्वरेणायुदात्तः । तदाह ब्रह्म त्यादि । गार्गीप्रिय इति । अत्र पूर्वपदप्रकृतिस्वरे एव । निष्ठोपसर्ग । उपसर्गपूर्व निष्ठान्तं पूर्वपदमन्तोदात्तम् । प्रधौतपाद इति । धावु गतिशुद्धयोः क्तः ज्ञापकारपूर्व पूर्वोत्तरपदनिमित्तकार्यमिति स्वरोत्तरं यणादि । तेन 'उदात्तस्वरितयो'. रित्यादिप्रवृत्तिः अत्रापि सज्ञायामित्यनुवर्तत इत्याहुः। क्षेप। अक्षेपे सज्ञात्वाऽभावे पूर्वपदप्रकृतिस्वर एव। घटोदर इति। घटशब्दो वृषादित्वादाद्युदात्तः । कटुकशब्दस्तु कन्नन्तत्वात्तथा । चलाचलस्याऽजन्तत्वाञ्चलाचलेषुरित्युदाहरणं चिन्त्यम् । एवं महेषु. रित्यपि । अनुदर इत्यत्रेति । क्षेपे सज्ञायां चेदम् । अक्षेपेऽपि पूर्वपदप्रकृतिस्वराऽपवादत्वात्तदेव । 'सूदर' इत्यत्र ततोऽपि परत्वाद् 'उपसर्गात्स्वाङ्ग'मिति बोध्यम्। ब्रह्मशब्द इति। 'नन्विषयस्यै' त्यनेनाघुदात्तत्वम् , मनिनन्तत्वाद्वा, 'ब्रह्मा देवाना'मित्यादावन्तोदात्तत्त्वं तु छान्दसत्वात् । गार्गीप्रिय इति । गौरीप्रिय इति तु
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy