________________
प्रकरणम् ]
सुबोधिनी - शेखरसहिता
[ ५६५ पूर्वपाणिनीयाः । श्राचार्येति किम्-पुत्रन्तेवासी । अन्तेवासिनि किम् पूर्वपाणिनीयं शास्त्रम् । ३८३६ उत्तरपदवृद्धौ सर्व च । ( ६-२-१०५ ) उत्तरपदस्येत्यधिकृत्य या वृद्धिर्विहिता तद्वत्युत्तरपदे परे सर्वशब्दो दिक्शब्दाश्चान्तोदात्ता भवन्ति । सर्वपाञ्चालकः । श्रपरपाञ्चालकः । अधिकारग्रहणं किम्-सर्वभासः । सर्वकारकः | ३८४० बहुव्रीहौ विश्वं संज्ञायाम् । ( ६-२-१०६ ) बहुवीही विश्वशब्दः पूर्वपदभूतः संज्ञायामन्तोदात्तः स्यात् । पूर्वपदप्रकृतिस्वरेण प्राप्तस्याद्युदात्तस्यापवादः । विश्वकर्मणां विश्वदेव्यावता । श्रविश्वदेवं सत्पतिम् । बहुव्रीहौ किम्-विश्वे च ते देवाश्च विश्वदेवाः । संज्ञायां किम् - विश्वेदेवः । प्रागन्यभावादुह्यधिकारः । ३८४१ उदराश्वेषुषु । ( ६-२- १०७ ) संज्ञायामिति वर्तते । वृकोदरः । हर्यश्वः । महषुः । ३८४२ क्षेपे । ( ६-२ - १०८) वासी च तद्वाचिनि । पूर्वपाणिनीया इति । 'पूर्वापर प्रथम -' इति समासः । पाणिनेश्छात्राः पाणिनीयाः । अत्रान्तेवासिनः प्रधानमाचार्यस्तूपसर्जनम् । पूर्वपाणिनीयं शास्त्रमिति । पूर्व चिरंतनमित्यर्थः । उत्तरपदवृद्धौ । श्रत्र वृद्धावित्येतावतैव वृद्धिमदुत्तरपदपरिप्रहे सिद्धे उत्तरपदग्रहणात्तदधिकारो लक्ष्यते । उत्तरपदशब्दस्य स्वरितत्वादिहाधिकार प्रतिपत्तिरित्याशयेनाह उत्तरस्य पदस्येत्यादि । सर्वपाञ्चाल इत्यादि । 'सुसर्वार्धदिक्शब्देभ्य' इति तदन्तविधौ 'अवृद्धादपि बहुवचनविषयात्' इति वुञ् । सुसज्जनपदस्य 'दिशोऽमद्राणाम्' इत्युत्तरपदवृद्धिः । वृद्धिशब्देन या वृद्धिर्विहिता तद्वत्युत्तरपद इत्युच्यमानेऽपि न निर्वाह इत्याह सर्वकारक इति । बहुव्रीहो । संज्ञायामिति बहुव्रीहेर्विशेषणं न विश्वशब्दस्येति । विशेः कन् नित्त्वादायुदात्तो विश्वशब्दः । उदरा । एषूत्तरपदेषु बहुव्रीहौ संज्ञायां पूर्वपदमन्तोदात्तं स्यात् । श्रयमपि पूर्वपदप्रकृतिस्वरस्यापवादः । वृकशब्दः 'प्राणिनां कुपूर्वाणाम्' इत्याद्युदात्तः । वृकस्येवोदरमस्य वृकोदरः । हर्यश्व इति हरतेः नश्चा | सप्तम्यर्थे प्रथमा । श्रन्तेवासिविशेषणश्चैतत् । उत्तरपदस्येत्यधीति । स्पष्टञ्चेदं 'वृद्धिरादै' सूत्रे भाष्ये । वृद्धि मात्रस्योत्तरपदस्याऽभावेन सामर्थ्याद् वृद्धिमदुतरपदे लब्धे उत्तरपदप्रहणात्तस्य स्वरितत्वाद्वा । तदधिकारलाभ इत्याहुः । अस्य वृद्धिशब्देन विहितवृद्धिग्रहणेमाऽपि वारयितुं शक्यत्वादाह सर्वकारक इति । बहुव्रीहौ विश्वं । 'सब्ज्ञायामिति बहुव्रीहेर्विशेषणम् । कर्मधारये विश्वदे॒वा इत्यन्तोदात्तम् । विश्वदेव इति । श्रसंज्ञायां पूर्वपदप्रकृतिस्वरः । विश्वमित्रविश्वाजिनयोः 'सब्ज्ञायां मित्राजिनयो 'रित्येतद्विप्रतिषेधेन । ऋषौ विश्वामित्रे प्रश्रयमेव स्वरो भवति, 'ऋषिप्रतिषेधो मित्रे' इति वचनात् । हर्यश्व इति । 'नेन्द्रस्य परस्येति
"