Book Title: Laghu Siddhant Kaumudi Part 04
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd
________________
६१०] सिद्धान्तकौमुदी। [तिङन्तस्वरकिम्-आगच्छ देव ग्रामं पश्यस्येनम् । न चेदिति किम्-मागच्छ देव ग्रामम्,पिता ते ओदनं भोचयते । सर्व किम्-प्रागच्छ देव ग्रामं स्वं चाहं च द्रश्याव एन. मित्यत्रापि निघातनिषेधो यथा स्यात् । यल्लोडन्तस्य कारकं तश्चान्यच लडन्ते. नोच्यते । ३६५६ लोट् च। (८-१-५२) लोडन्तं गत्यर्थनोटा युक्त नानु. दात्तम् । पागच्छ देव ग्रामं पश्य । गत्यर्थेति किम्-पच देवीदनं भुवनम् । लोट् किम्-पागच्छ देव ग्रामं पश्यसि । न चेस्कारकं सर्वान्यदित्येव । भागडछ देव ग्राम, पश्यत्वेनं रामः। सर्वग्रहणारिवह स्थादेव । प्रागच्छ देव ग्राम स्वं चाहं च पश्यावः। योगविभाग उत्तरार्थः। ३६६० विभाषितं सोपसर्गमनुआगच्छेरिति । लिङयं न लोट् । द्रक्ष्यसीति । वर्तमानसामीप्ये लट् । प्रागच्छ देव ग्रामं पित्रा ते प्रोदनं भोक्ष्यत इति । कारकशब्देन सूत्रे कारकव्यक्तिरेवाश्रीयते तेन कर्तृत्वाभेदेऽपि व्यक्तिभेदात्कारकभेदः । त्वं चाहं च द्रक्ष्याव एनमिति । श्रक्रियमाणे सर्वग्रहणं यत्र वाच्यं न भिद्यते तत्रैव भवित. व्यमिह च भिद्यते वाच्यम् । एकत्रैकमन्यत्र द्वयमिति निघातप्रतिषेधो न स्यात् , क्रियमाणे तु सर्वग्रहणे लोड्वाच्यकारकापेक्षया लुड्वाच्यकारकाधिक्येऽपि निघातप्रतिषेधः सिद्धः । लोट् च । लुटग्रहणं विहाय 'गत्यर्थलोटा-' इति संपूर्ण सूत्रमनुवर्तते । तदाह गत्यर्थेत्यादि आगच्छति । गत्यर्थलोटा युक्तं पश्येति तु निहतमेव । योगविभाग उत्तरार्थ इति । उत्तरो विकल्पो लोट एव यथा स्यात् , लुटो मा भूद् इति । विभाषितम् । पूर्वसूत्रं सर्वमनुवर्तते । प्राप्तविभाषा चेयम् । गत्यर्थलोटा युक्तं लोडन्तं सोपसर्गमुत्तमभिनं विभाषा नानुदात्तं स्याद् न चेत्कारकं सर्वाऽपि लवाच्यकर्मभेदो नास्तीति भवत्येव प्रतिषेधः । एवम् 'आगच्छ देव प्राम, राम द्रक्ष्यसी'त्यादौ कर्मभेदेऽपि लवाच्यक.क्याद्भवत्येव । पचौदनमिति । अत्र लुडन्तं निहतमेव । पिता ते ओदनमिति । आगमने देवः कर्ता, प्रामः कर्म, भोजने तत्पिता कर्ता, ओदनः कर्मेति कारकभेदः । त्वचाहश्चेति । लोवाच्यकारकापेक्षया यत्र लड्वाच्य कारकं किंचिदधिकं भवति तत्राप्ययं प्रतिषेधो यथा स्यादित्यर्थ सर्वग्रहणम् । प्रकृते एकस्याऽन्यत्वेऽपि सर्व नाऽन्यदिति भावः। एवं लोड्वाच्यकारका. पेक्षया लुवाच्य कारकं यदा न्यूनं भवति, लोड्वाच्यमधिकं भवति 'श्रागच्छतं देवदत्तयज्ञदत्तौ । देवदत्त श्रोदनं भोक्ष्यते' इति,-अत्रापि प्रतिषेधो भवत्येव । सर्वशब्दस्वारस्येन लुट्सर्वकारके एव लोट्सम्बन्धितदपेक्षयाऽन्यत्वाऽभावस्य निमित्तत्वप्रतीतेरित्याहुः । लोट् च । न चेत्कारकमिति । गत्यर्थलोवाच्यकारकापेक्षया उदा. हरणभूतलोड्वाच्यकारकं सर्वञ्चदन्यन्न भवतीत्यर्थः। विभाषितं सोपसर्गमनु ।
Page Navigation
1 ... 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716