Book Title: Laghu Siddhant Kaumudi Part 04
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 635
________________ ६३२] सिद्धान्तकौमुदी। [लिङ्गानुशासन१३० परवत् । अन्यस्तत्पुरुषः परवल्लिङ्गः स्यात् । रात्राबाहाः पुंलि । १३१ अपथपुण्याहे नपुंसके । १३२ संख्यापूर्वा रात्रिः। त्रिरात्रम् । संख्यापूर्वेति किम्-सर्वरात्रः । १३३ द्विगुः स्त्रियां च। व्यवस्थया । पञ्चमूली । त्रिभुवनम् । १३४ इसुसन्तः। हविः । धनुः । १३५ अर्चिः स्त्रियां च । इसन्तत्वेऽपि अर्चिः । स्त्रियां नपुंसके च स्यात् । इयमिदं वा अर्चिः । १३६ छर्दिः स्त्रियामेव । इयं छर्दिः । छद्यतेऽनेनेति छादेशचुरादिण्यन्तादर्चिशुची. स्यादिना इस् । इस्मनिस्यादिना हस्वः । पटलं छदिरित्यमरः । तत्र पटलसाहमर्याच्छदिषः क्लीबतां वदन्तोऽमरव्याख्यातार उपेच्याः। १३७ मुखनयनलोहवनमांसरुधिरकार्मुकविवरजलहलधनान्नाभिधानानि । एतेषाम. भिधायकानि क्लीबे स्युः । मुखमाननम् । नयनं लोचनम् । लोहं कालम् । वनं गहनम् । मांसमामिषम् । रुधिरं रकम् । कार्मुकं शरासनम् । विवरं बिलम् । जलं वारि । हलं लाङ्गलम् । धनं द्रविणम् । अनमशनम् । अस्यापवादानाह त्रिसूत्र्या । १३८ सीरााँदनाः पुंसि । १३६ वक्त्रनेत्रारण्यगाण्डीवानि पुंसि च । वक्त्रो वक्रम् । नेत्रो नेत्रम् । अरण्योऽरण्यम् । गाण्डीवो गाण्डीवम् । १४० अटवी स्त्रियाम् । १४१ लोपधः । कुलम् । कूलम् । स्थलम् । १४२ तूलोपलतालकुसूलतरलकम्बलदेवलवृषलाः पंसि । अयं तूलः । १४३ शीलमूलमङ्गलसालकमलतलमुसलकुण्डल. नपुंसकमित्यनुकर्षः । 'विभाषा सेना-' इति विभाषापदोपादानेनेदमपि गतार्थम् । परवदिति । 'परवल्लिङ्ग-' इति सूत्रोपात्त इत्यर्थः । परवदिति सूत्रस्य स्मारकमिह परवदिति, नत्विदमपूर्वम् । तत्पुरुष इति द्वन्द्वस्याप्युपलक्षणम् । संख्यापूर्वा रात्रिः । 'संख्यापूर्व रात्रं क्लीबम्' इत्यस्यानुवादः । द्विगुः स्त्रियां चेति । चानपुंसकमिति संबध्यते । इदमपि 'अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः' 'पात्रायन्तस्य न' इत्यनेन गतार्थम् । अतएवाह व्यवस्थयेति । इसुसन्तः। 'अर्चिशुचिहुसूपिछर्दिभ्य इसिः', 'जनेरुसि.' एतयोरुपात्तावेतौ। छदिः रियामेवेति । यद्यपि छदिरित्यस्येसन्तत्वेन नपुंसकत्वे प्राप्त विशेषोपादानेन स्त्रियामित्यनेनैव नित्यत्रीत्वलाभे सिद्धे एवकारो व्यर्थः, तथापि पटलं छदिः' इत्यमरपन्थदर्शनेन साहचर्यानपुंसकत्वमपीति भ्रान्तिः स्यात्तन्निवारणायैवकारः। अत एव वक्ष्यति अमरव्याख्यातार इति । अस्येति 'मुखनयन-' इति सूत्रस्य । सीराथीदनाः। सीरशब्दो हलाभिधानः । अर्थशब्दस्तु धनशब्दस्य पर्यायः । ओदनशब्दोऽनवाची। भिस्साभिस्सटाशब्दौ तु दग्धानपराविति तयोः स्त्रीत्वेऽपि न क्षतिरिति । अटवी

Loading...

Page Navigation
1 ... 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716