Book Title: Laghu Siddhant Kaumudi Part 04
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd
________________
६३४ ]
सिद्धान्तकौमुदी । [ लिङ्गानुशासन
छात्रपुत्रमन्त्रवृत्र मेट्रोष्ट्राः पुंसि । अयं भृत्रः । न मिश्रममित्रः । तस्य मिश्राययमित्रास्ते इति माघः । स्याताममित्रौ मित्रे चेति च । यत्तु द्विषोऽमित्र इति सूत्रे हरदत्तेनोक्तम् । अमेर्द्विषदित्यौयादिक इत्रच् । अमेरमित्रम् । मित्रस्य व्यथयेदित्यादौ मध्योदान्तस्तु चिन्थ्यः । नञ्समासेऽप्येवम् । परवलिङ्गतापि स्यादिति तु तत्र दोषान्तरमिति तत्प्रकृतसूत्रापर्यालोचनमूलकम् । स्वरदोषोद्भाव. नमपि नमो जरमरमित्रमृता इति । षाष्ठसूत्रास्मरण मूलकमिति दिक् । १५७ पत्रपात्र पवित्र सूत्रच्छत्राः पुंसि च । १५८ बलकुसुमशुल्बपत्तनरणाभिधानानि । बलं वीर्यम् । १५६ पद्मकमलोत्पलानि पुंसि च । पद्मादयः शब्दाः कुसुमाभिधायित्वेऽपि द्विलिङ्गाः स्युः । अमरोऽप्याह वा पुंसि पद्मं नलनमिति । एवं चार्धर्चादिसूत्रे तु जलजे पद्मं नपुंसकमेवेति वृत्तिग्रन्थो मतान्तरण नेयः । १६७ श्राहवसंग्रामौ पुंसि । १६१ आजि: स्त्रियामेव । १६२ फलजातिः । फलजातिवाची शब्दो नपुंसकं स्यात् । आमलकम् । श्राम्रम् । १६३ वृक्षजातिः स्त्रियामेव । कचिदेवेदम् । हरीतकी । १६४ वियजगत्सकृत्कन्पृषत्कृद्यकृदुदश्वितः । एतेः क्लीबाः स्युः । १६५ नव
स्यात् । 'सर्वधातुभ्यष्ट्रन्' इति त्रन्प्रत्ययो नकारानुबन्धक इति । यात्रामात्रा । 'हुयाम -' इति विहितस्त्रन्प्रत्ययोऽपिग्रहणेन गृह्यत इति नपुंसकत्वे प्राप्तेऽस्यारम्भः । एवकारो न्यायसिद्धबाध्यबाधकभावानुवादकः । भृत्रामित्र । पूर्वस्यापवादः । यत्त्विति । दोषान्तरमित्यन्ता तदुक्तिः । मध्योदात्तः मकारेकारस्य प्रत्ययाद्युदात्तत्वेन मध्योदात्त इति तद्भावः । चिन्त्य इति । चित्त्वस्य सत्त्वात् । नन्वमित्रशब्दो नेत्रन्तः किन्तु 'अमिचिमि -' इति धातुविहितक्त्रान्तमित्रशब्देन नञः समासे सति सिद्ध इत्याह नञ्समासेऽप्येवमिति । अन्तोदात्त इत्यर्थः । परवल्लिङ्गतेति । एवं सति नपुंसकत्वं स्यात् । हरदत्तोक्तं दूषयति तत्प्रकृतेत्यादिना । नञो जर• मरेति । यदि तु न मित्रम् श्रमित्र इति नञ्समासस्तदा न ' नञो जरमर मित्र - ' इत्यस्य प्राप्तिस्तस्य बहुव्रीहिसमासे प्रवृत्तेरिति बोध्यम् । कुसुमाभिधायित्वेति । वस्तुतः कुसुमाभिघ'यित्वेऽपीत्यर्थः । यदि तु कुसुमविशेषाभिधायकोऽयं न तु कुसुमशब्दशक्यतावच्छेदकावच्छिन्नशक्त इति विभाव्यते तदा त्वपूर्वमेवोभयलिङ्गत्वाभिधानमिति । मतान्तरेण जलजशब्दस्य जलजातकुसुमान्तराभिधायकत्वमित्यभिप्रायकमतान्तरेणेत्यर्थः । श्राहवसंग्रामौ पुंसि । एतयोर्युद्धाभिधायकत्वान्नपुंसकत्वे प्राप्ते । एवमाजशब्दोऽपि । फलजातिरिति । फलोपादानाद् वृक्षपरस्यामलकीशब्दस्य स्त्रीत्वेऽपि न क्षतिः । हरीतकीति । हरीतक्याः फलानि हरीतक्यः । ' हरीतक्या
1
Page Navigation
1 ... 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716