SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ ६३४ ] सिद्धान्तकौमुदी । [ लिङ्गानुशासन छात्रपुत्रमन्त्रवृत्र मेट्रोष्ट्राः पुंसि । अयं भृत्रः । न मिश्रममित्रः । तस्य मिश्राययमित्रास्ते इति माघः । स्याताममित्रौ मित्रे चेति च । यत्तु द्विषोऽमित्र इति सूत्रे हरदत्तेनोक्तम् । अमेर्द्विषदित्यौयादिक इत्रच् । अमेरमित्रम् । मित्रस्य व्यथयेदित्यादौ मध्योदान्तस्तु चिन्थ्यः । नञ्समासेऽप्येवम् । परवलिङ्गतापि स्यादिति तु तत्र दोषान्तरमिति तत्प्रकृतसूत्रापर्यालोचनमूलकम् । स्वरदोषोद्भाव. नमपि नमो जरमरमित्रमृता इति । षाष्ठसूत्रास्मरण मूलकमिति दिक् । १५७ पत्रपात्र पवित्र सूत्रच्छत्राः पुंसि च । १५८ बलकुसुमशुल्बपत्तनरणाभिधानानि । बलं वीर्यम् । १५६ पद्मकमलोत्पलानि पुंसि च । पद्मादयः शब्दाः कुसुमाभिधायित्वेऽपि द्विलिङ्गाः स्युः । अमरोऽप्याह वा पुंसि पद्मं नलनमिति । एवं चार्धर्चादिसूत्रे तु जलजे पद्मं नपुंसकमेवेति वृत्तिग्रन्थो मतान्तरण नेयः । १६७ श्राहवसंग्रामौ पुंसि । १६१ आजि: स्त्रियामेव । १६२ फलजातिः । फलजातिवाची शब्दो नपुंसकं स्यात् । आमलकम् । श्राम्रम् । १६३ वृक्षजातिः स्त्रियामेव । कचिदेवेदम् । हरीतकी । १६४ वियजगत्सकृत्कन्पृषत्कृद्यकृदुदश्वितः । एतेः क्लीबाः स्युः । १६५ नव स्यात् । 'सर्वधातुभ्यष्ट्रन्' इति त्रन्प्रत्ययो नकारानुबन्धक इति । यात्रामात्रा । 'हुयाम -' इति विहितस्त्रन्प्रत्ययोऽपिग्रहणेन गृह्यत इति नपुंसकत्वे प्राप्तेऽस्यारम्भः । एवकारो न्यायसिद्धबाध्यबाधकभावानुवादकः । भृत्रामित्र । पूर्वस्यापवादः । यत्त्विति । दोषान्तरमित्यन्ता तदुक्तिः । मध्योदात्तः मकारेकारस्य प्रत्ययाद्युदात्तत्वेन मध्योदात्त इति तद्भावः । चिन्त्य इति । चित्त्वस्य सत्त्वात् । नन्वमित्रशब्दो नेत्रन्तः किन्तु 'अमिचिमि -' इति धातुविहितक्त्रान्तमित्रशब्देन नञः समासे सति सिद्ध इत्याह नञ्समासेऽप्येवमिति । अन्तोदात्त इत्यर्थः । परवल्लिङ्गतेति । एवं सति नपुंसकत्वं स्यात् । हरदत्तोक्तं दूषयति तत्प्रकृतेत्यादिना । नञो जर• मरेति । यदि तु न मित्रम् श्रमित्र इति नञ्समासस्तदा न ' नञो जरमर मित्र - ' इत्यस्य प्राप्तिस्तस्य बहुव्रीहिसमासे प्रवृत्तेरिति बोध्यम् । कुसुमाभिधायित्वेति । वस्तुतः कुसुमाभिघ'यित्वेऽपीत्यर्थः । यदि तु कुसुमविशेषाभिधायकोऽयं न तु कुसुमशब्दशक्यतावच्छेदकावच्छिन्नशक्त इति विभाव्यते तदा त्वपूर्वमेवोभयलिङ्गत्वाभिधानमिति । मतान्तरेण जलजशब्दस्य जलजातकुसुमान्तराभिधायकत्वमित्यभिप्रायकमतान्तरेणेत्यर्थः । श्राहवसंग्रामौ पुंसि । एतयोर्युद्धाभिधायकत्वान्नपुंसकत्वे प्राप्ते । एवमाजशब्दोऽपि । फलजातिरिति । फलोपादानाद् वृक्षपरस्यामलकीशब्दस्य स्त्रीत्वेऽपि न क्षतिः । हरीतकीति । हरीतक्याः फलानि हरीतक्यः । ' हरीतक्या 1
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy