________________
प्रकरणम् ]
भैरवीचन्द्रकलासहिता ।
[ ६३३
पललमृणालवालनिगलपलालविडालखिलशूलाः पुंसि च । चात् क्लीवे । शीलं शील इत्यादि । १४४ शतादिः संख्या । शतम् । सहस्रम् । शतादिरिति किम्- एको द्वौ बहवः । संख्येति किम् - शतशृङ्गो नाम पर्वतः । १४५ शतायुतप्रयुताः पुंसि च । भयं शतः । इदं शतमित्यादि । १४६ लक्षा कोटिः स्त्रियाम् । इयं लता । इयं कोटिः । वा लक्षा नियुतं च तदित्यमरात् क्लीवेऽपि वक्षम् । १४७ शङ्कुः पुंसि । १४८ सहस्रः क्वचित् । श्रयं सहस्रः । इदं सहस्रम् । १४६ मन्द्रयच्कोऽकर्तरि । मन्प्रत्ययान्तो व्यकः क्लीवः स्थान्न तु कर्तरि । वर्म । चर्म । द्व्यकः किम् - अणिमा | महिमा 1 अकर्तरि किम् - ददाति इति दामा । १५० ब्रह्मन् । पुंसि च । श्रयं ब्रह्मा । इदं ब्रह्म । १५१ नामरोमणी नपुंसके । 'मन्द्व्यच्क' इत्यस्यायं प्रपञ्चः । १५२ असन्तो द्वयच्कः । यशः । मनः । तपः । द्व्यकः किम् - चन्द्रमाः । १५३ अप्सराः स्त्रियाम् । एता अप्सरसः । प्रायेणायं बहुवचनान्तः । १५४ त्रान्तः । पत्रम् । छत्रम् । १५५ यात्रामात्राभस्त्रादंष्ट्रावर त्राः स्त्रियामेव । १५६ भृत्रामित्र
स्त्रियाम् । अयं वनाभिधानः । संख्येति । संख्यावाचीत्यर्थः । शतायुत । श्रयं शतशब्दोऽनन्तवाची । 'शतादिः -' इति पूर्वसूत्रापवादोऽयम् । लक्षाकोटी । एतयोरपि संख्यावाचकत्वान्नपुंसकः प्राप्ते इदम् । क्लीबेऽपीति । एवं चायमर्धर्चादिषु द्रष्टव्यः । शङ्कुः पुंसि । अस्य शङ्कुशब्दस्य संख्याविशेषवाचकश्वात् 'शतादिः संख्या' इति नपुंसकत्वे प्राप्तेऽस्यारम्भः । सहस्रः क्वचिदिति । क्वचिदिति अर्थविशेष इत्यर्थः । 'सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्' इत्यत्रानन्तवांची । नचात्र सहस्रशब्दस्यानन्तपरत्वे संख्यापरत्वाभावेन सहस्रपादित्यत्र 'संख्या सुपूर्वस्य' इति पादशब्दान्त्यलोपो न स्यादिति वाच्यम् । नियतविषयपरिच्छेदकत्वरूप संख्यात्वाभावेऽपि यथाकथंचित्संख्यायाः प्रतीतिरिति लोपः । वस्तुतश्चान्दसो लोप इति तूचितम् । मन्ड्यच्कः । अत्र मन्प्रत्ययः श्रूयमाणनकारान्तः 'सर्वधातुभ्यो मनिन्' इति विहितः । चर्म वर्मेति । चरादिधातोर्मनिन्प्रत्ययः । बाहुलकादिडभावः । श्रणिमादौ त्विट् । दामेत्यत्रापि सर्वधातुभ्यो मनिन्' इत्यनेनैव मनिन्, परं त्वयं विशेषः । उणादिप्रत्य • यान्तानां संज्ञाशब्दपरत्वेन यादशी व्युत्पत्तिर्यत्रोचिता सा कल्पनीयेति कर्तर्यपि प्रत्ययः संभवतीति । ब्रह्मेति । 'बृहेर्नोच्च' इति मनिन्प्रत्ययः । असन्तो यकः । 'सर्वधातुभ्योऽसुन्' इति विहितोऽसुन् । तस्यासुनो येष्वनुवृत्तिस्तदन्ता श्रपि बोध्याः । 'चन्देर्मो डित्' इति विहितासुन्प्रत्ययान्तश्चन्द्रमस् शब्दोऽप्यसुन्नन्तः । कृद् प्रहणे गतिकारकपूर्वस्यापि प्रहणात् । एवमप्सरः शब्दोऽपि । त्रान्तः । त्रप्रत्ययान्तो नपुंसकः
1