________________
६३२] सिद्धान्तकौमुदी। [लिङ्गानुशासन१३० परवत् । अन्यस्तत्पुरुषः परवल्लिङ्गः स्यात् । रात्राबाहाः पुंलि । १३१ अपथपुण्याहे नपुंसके । १३२ संख्यापूर्वा रात्रिः। त्रिरात्रम् । संख्यापूर्वेति किम्-सर्वरात्रः । १३३ द्विगुः स्त्रियां च। व्यवस्थया । पञ्चमूली । त्रिभुवनम् । १३४ इसुसन्तः। हविः । धनुः । १३५ अर्चिः स्त्रियां च । इसन्तत्वेऽपि अर्चिः । स्त्रियां नपुंसके च स्यात् । इयमिदं वा अर्चिः । १३६ छर्दिः स्त्रियामेव । इयं छर्दिः । छद्यतेऽनेनेति छादेशचुरादिण्यन्तादर्चिशुची. स्यादिना इस् । इस्मनिस्यादिना हस्वः । पटलं छदिरित्यमरः । तत्र पटलसाहमर्याच्छदिषः क्लीबतां वदन्तोऽमरव्याख्यातार उपेच्याः। १३७ मुखनयनलोहवनमांसरुधिरकार्मुकविवरजलहलधनान्नाभिधानानि । एतेषाम. भिधायकानि क्लीबे स्युः । मुखमाननम् । नयनं लोचनम् । लोहं कालम् । वनं गहनम् । मांसमामिषम् । रुधिरं रकम् । कार्मुकं शरासनम् । विवरं बिलम् । जलं वारि । हलं लाङ्गलम् । धनं द्रविणम् । अनमशनम् । अस्यापवादानाह त्रिसूत्र्या । १३८ सीरााँदनाः पुंसि । १३६ वक्त्रनेत्रारण्यगाण्डीवानि पुंसि च । वक्त्रो वक्रम् । नेत्रो नेत्रम् । अरण्योऽरण्यम् । गाण्डीवो गाण्डीवम् । १४० अटवी स्त्रियाम् । १४१ लोपधः । कुलम् । कूलम् । स्थलम् । १४२ तूलोपलतालकुसूलतरलकम्बलदेवलवृषलाः पंसि । अयं तूलः । १४३ शीलमूलमङ्गलसालकमलतलमुसलकुण्डल. नपुंसकमित्यनुकर्षः । 'विभाषा सेना-' इति विभाषापदोपादानेनेदमपि गतार्थम् । परवदिति । 'परवल्लिङ्ग-' इति सूत्रोपात्त इत्यर्थः । परवदिति सूत्रस्य स्मारकमिह परवदिति, नत्विदमपूर्वम् । तत्पुरुष इति द्वन्द्वस्याप्युपलक्षणम् । संख्यापूर्वा रात्रिः । 'संख्यापूर्व रात्रं क्लीबम्' इत्यस्यानुवादः । द्विगुः स्त्रियां चेति । चानपुंसकमिति संबध्यते । इदमपि 'अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः' 'पात्रायन्तस्य न' इत्यनेन गतार्थम् । अतएवाह व्यवस्थयेति । इसुसन्तः। 'अर्चिशुचिहुसूपिछर्दिभ्य इसिः', 'जनेरुसि.' एतयोरुपात्तावेतौ। छदिः रियामेवेति । यद्यपि छदिरित्यस्येसन्तत्वेन नपुंसकत्वे प्राप्त विशेषोपादानेन स्त्रियामित्यनेनैव नित्यत्रीत्वलाभे सिद्धे एवकारो व्यर्थः, तथापि पटलं छदिः' इत्यमरपन्थदर्शनेन साहचर्यानपुंसकत्वमपीति भ्रान्तिः स्यात्तन्निवारणायैवकारः। अत एव वक्ष्यति अमरव्याख्यातार इति । अस्येति 'मुखनयन-' इति सूत्रस्य । सीराथीदनाः। सीरशब्दो हलाभिधानः । अर्थशब्दस्तु धनशब्दस्य पर्यायः । ओदनशब्दोऽनवाची। भिस्साभिस्सटाशब्दौ तु दग्धानपराविति तयोः स्त्रीत्वेऽपि न क्षतिरिति । अटवी