________________
प्रकरणम् ] भैरवीचन्द्रकलासहिता। [६३१
नपुंसकाधिकारः। ११८ नपुंसकम् । अधिकारोऽयम् । ११६ भावे ल्युडन्तः। हसनम् । भावे किम्-पचनोऽग्निः। इध्मप्रवश्वनः कुठारः। १२० निष्ठा च । भावे या निष्ठा तदन्तं क्लीबं स्यात् । हसितम् । गीतम् । १२१ त्वष्यत्रो तद्धिती। शुक्रत्वम् । शौक्रयम् । व्यञः पिस्वसामर्थ्यास्पक्ष स्त्रीस्वम् । चातुर्यम् । चातुरी। सामप्रयम् । सामग्री । भौचित्यम् । भौचिती। कर्मणि च ब्राह्मणादिगुणवचनेभ्यः । ब्राह्मणस्य कर्म ब्राह्मण्यम् । १२३ यद्यढग्यगञराबुञ्छाश्च भावकर्मणि । एतदन्तानि क्रीबानि । 'स्तेनाद्यन्नलोपश्च' ( १७६० )। स्तेयम् । 'सख्युर्यः' (१७६१)। सख्यम् । 'कपिज्ञास्योर्डक' ( १७६२)। कापेयम् । 'पस्यन्तपुरोहितादिभ्यो यक् ' ( १७६३)। प्राधिपत्यम् । 'प्राणभृजातिवयो. वचनोद्गात्रादिभ्योऽज्' (१७६४)। भौष्ट्रम् । 'हायनान्तयुवादिभ्योऽण्' ( १७६५) । द्वैहायनम् । 'द्वन्द्वमनोज्ञादिभ्यो वुज्' (१७६८)। पितापुत्रकम् । 'होत्राम्यश्छः' (१८००)। अच्छावाकीयम् । 'मन्ययीभावः' ( ६१६ )। अधिस्त्रि । १२४ द्वन्द्वैकत्वम् । पाणिपादम् । १२५ अभाषायां हेमन्त. शिशिरावहोरात्रे च । स्पष्टम् । १२६ अनकर्मधारयस्तत्पुरुषः। अधिकारोऽयम् । १२७ अनल्पे छाया । शरच्छायम् । १२८ राजाऽमनुष्यपूर्वा सभा । इनसभमित्यादि । १२६ सुरासेनाच्छायाशालानिशा स्त्रियां च ।
___ भावे ल्युडन्तः । इदं च सूत्रं यद्यपि 'नपुंसके भावे लः' 'ल्युट् च' इत्यनेन गतार्थ तथापि स्पष्टार्थमुपात्तम् । एवमन्तग्रहणं चेति बोध्यम् । इध्मप्रव. श्वन इति । अत्र करणे ल्युट् । निष्ठा च । अत्र निष्ठपदं क्तस्य बोधकम् । इदमपि सूत्र 'नपुंसके भावे क्तः' इत्यनेन गतार्थम् । प्रत्ययग्रहणे तदन्तस्य ग्रहणम् । त्वष्यी तद्धितौ । भावे इत्यनुवर्तते । यद्यपि 'तस्य भावः-' इति सूत्रे भाव. शब्दः प्रकृतिजन्यबोधीयप्रकारताश्रयधर्मपरः । 'भावे ल्युडन्तः' इत्यत्र तु भावशब्दो भावनाबोधक इति भेदस्तथापीह भावशब्दः शब्दाधिकारेणान्यार्थको द्रष्टव्यः । कर्मणि च । चाद्भावे । त्वष्यवित्याद्यनुवर्तते । स्तेनाद्यन्नलोपश्चेति । यद्यपीदं सूत्रं प्राग्व्याख्यातमेव तथापीतः प्रभृति कथितनपुंसकत्वस्पष्टप्रतिपत्त्यर्थमिहोपादानमिति बोध्यम् । द्वन्द्वैकत्वमिति । 'द्वन्द्वश्च प्राणितूर्य-' इत्यादिना येषां द्वन्द्वानामेक. वद्भावो भवति ते द्वन्द्वा नपुंसकत्वाभिधायका बोध्या इत्यर्थः। अभाषायामिति । इदमपि सूत्रं 'हेमन्तशिशिरावहोरात्रे च छन्दसि' इति सूत्रे छन्दसीत्युपादानेन गतार्थम्। हेमन्तशिशिरावित्यत्र तु निर्देशादेव पुंस्त्वप्रतिपादकता बोध्या । स्त्रियां चेति । चेन