SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ ६३०] सिद्धान्तकौमुदी। [लिङ्गानुशासनचाप्राणिनि । कंसोऽस्त्री पानभाजनम् । प्राणिनि तु कंसो नाम कश्चिद्राजा । १०० रश्मिदिवसाभिधानानि । एतानि पुंसि स्युः । रश्मिमयूखः दिवसो घनः। १०१ दीधितिः स्त्रियाम् । पूर्वस्यापवादः । १०२ दिनाहनी नपुंसके । अयमप्यपवादः १०३ मानाभिधानि । एतानि पुंसि स्युः । कुडवः प्रस्थः । द्रोणाढको नपुंसके च । इदं द्रोणम् । अयं द्रोणः । १०५ खारीमानिके स्त्रियाम् । इयं खारी । इयं मानिका । १०६ दाराक्षतलाजासूनां बहुत्वं च । इमे दाराः । १०७ नाडयपजनोपपदानि व्रणाङ्गपदानि । यथासंख्यं नाडयाद्युपपदानि व्रणादीनि पुंसि स्युः । अयं नाडीव्रणः । अपाङ्गः । जनपदः । व्रणादीनामुभयलिङ्गत्वेऽपि क्लीवत्वानुवृत्यर्थ सूत्रम् । १०८ मरुद्गरुत्तरदृत्विजः । मयं मरुत् । १०६ ऋषिराशिदतिग्रन्थिक्रिमिध्वनिबलिकोलिमौलिरविकविकपिमुनयः। एते पुंसि स्युः । अयमुषिः। ११० ध्वजगजमुञ्जपुञ्जाः। एते पुंसि । १११ हस्तकुन्तान्तवातवातदूतधूतसूतचतमहूर्ताः। एते पुंलि । अमरस्तु मुहूर्तोऽस्त्रियामित्याह । ११२षण्डमण्डकरण्डभरण्डवरण्डतुण्डगण्डमुण्डपाषण्डशिखण्डाः । अयं षण्डः । ११३ वंशांशपुरोडाशः । अयं वंशः । पुरो दाश्यते पुरोडाशाः । कर्मणि घज । भवव्याख्यानयोः प्रकरणे 'पौरोडाशपुरोडाशास्ठन्' (१४४६) इति विकारप्रकरणे 'बीहेः पुरोडाशे' (१५२८) इति च निपातनात्प्रकृतसूत्र एव निपातनाद्वा दस्य डस्वम् । पुरोडाशभुजामिष्टमिति माघः । ११४ हृदकन्दकुन्दबुदबुदशब्दाः । अयं हदः । ११५ अर्धपथिमथ्यभुक्षिस्तम्बनितम्बपूगाः। अयमधः । ११६ पल्लवपल्वलकफरेफकटाहनियूहमठमणितरङ्गतुरकगन्धमृदङ्गसङ्गसमुद्गपुडाः। अयं पल्लवः इत्यादि । ११७ सारथ्यतिथिकुक्षिबस्तिपाण्यालयः । एते पुंसि । अयं सारथिः । इति पुंलिङ्गाधिकारः। दिनाहनी । दिवसाभिधानाविमौ । खारीमानिके। मानाभिधानत्वात्पुंस्त्वे प्राप्तेऽ. स्यारम्भः। बहुत्वं चेति । चकारः पुंस्त्वस्य समुहायकः। नाड्यपजनोपपदानि वणाङ्गपदानि । अत्रोपपदशब्दः पूर्वपदपरो नतु 'तत्रोपपदम्-' इति तत्संज्ञकपरः। तस्य प्राप्त्यभावात् । क्लीबत्वनिवृत्त्यर्थमिति । नपुंसकाधिकारे 'मुखनयन' इत्या. दिवक्ष्यमाणसूत्रेण विवराभिधानत्वेन क्लीबत्वं प्राप्तं तमिवृत्त्यर्थमित्यर्थः । अमरस्त्विति । एवं च तन्मतेऽधर्चादिष्वयं द्रष्टव्यः। इति लिङ्गानुशासने पुल्लिङ्गाधिकारः।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy