Book Title: Laghu Siddhant Kaumudi Part 04
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 617
________________ ६१४ ] सिद्धान्तकौमुदी। [तिङन्तस्वरप्राथमिकी । योगे किम्-पूर्वभूतयोरपि योगे निघातार्थम् । प्रथमाग्रहणं द्वितीयादेस्तिान्तस्य मा भूत् । ३६६७ हेति क्षियायाम्। (८-१-६०) हयुक्ता प्रथमा तिविभकिर्नानुदात्ता धर्मव्यतिक्रमे । स्वयं ह रथेन याति ३ । उपाध्याय पदातिं गमयति । 'क्षियाशी' (३६२३) इति प्लुतः। ३६६८ अहेति विनियोगे च । (८-१-६१ ) महयुका प्रथमा ति विभक्तिर्नानदाता नाना. प्रयोगे नियोगे क्षियायां च । स्वमह ग्रामं गच्छ। तियायाम् । स्वयमह रथेन याति ३ । उपाध्यायं पदाति नयति। ३६६६ चाहलोप एवेत्यवधारणम् । (८-१-६२) च अह एतयोर्लोपे प्रथमा तिङ्विभकिर्नानुदात्ता। देव एव प्राम गच्छतु । देव एवारण्यं गच्छतु । ग्राममरण्यं च गच्छस्वित्यर्थः । देव एव प्रामं गच्छतु । र म एवारण्यं गच्छतु । ग्राम केवलमरण्यं केवलं गच्छावित्यर्थः । इहाहलोपः। स च केवलार्थः । अवधारणं किम्-देव क्वेव भोयसे। मुष्टिहत्ययेति च मन्त्रे वेदभाष्ये स्पष्टम् । हेति। स्वयं ह रथेन यातीति । उपाध्याये पदातौ गच्छति सति शिष्यस्य रथेन गमनं प्रतिषिद्धमित्याचारभेदः । अहेति । अनेकस्मिन्प्रयोजने प्रेषणं विनियोगः । तदाह नानाप्रयोजने नियोगे इति । अनेकप्रयोजनो नियोगः प्रेषणम् । उदाहरणे पूर्वत्र प्रेषे प्लुतः, उत्तरत्र क्षियायाम् । चाहलोप । अवधारणाथैवशब्दप्रयोगे सति प्रथमं तिङन्तं नानुदात्तम् । सूत्रेण चाहलोपस्याविधानाद् अर्थप्रकरणादिना गम्यमानार्थत्वादप्रयोग एव लोपो विवक्षितः । चशब्दः समुच्चयार्थः । अहशब्दः केवलार्थः। समानकर्तृकेऽहलोपः । उदाहरणे चलोपं दर्शयति प्राममरण्यं चेति । क्केव भोत्यस इति । वादधि' 'इन्दं महो वा रजसः' इत्युत्तरवाक्ये इन्हें प्रति साति=धनदानम् अधि= आधिक्येन ईमहे याचामहे । वैदिकनिघण्टौ याच्याकर्मसु ईमह इति पाठात् । कस्माल्लोकादित्याकाङ्क्षायामाह-इतः अस्माल्लोक.त्पार्थिवाद्वा दिवो वा महो= महतः प्रौढात् , रजसा=रजकाद् अन्तरिक्षलोकाद्वेति मन्त्रार्थः । ननु श्रुतस्यैव तिक. न्तस्योत्तरत्रानुषशात्कथं प्रथममेतदिति चेत् , अनुषवस्यापि औपाधिकमेदं पुरस्कृत्य प्राथम्याश्रयणेन निघातनिषेधस्य छन्दसि बहुशो दृष्टत्वात् । एतच्च वेदभाष्ये स्पष्टम् । हेति ति । धर्मोल्लवनं-तिया । उदाहरणे द्वितीयस्य निघातो भवत्येव हयोगाऽभावादिति बोद्धयम् । अहेति विनि । अनेकस्मिन् प्रयोजनं प्रेषणं विनियोगः। अस्योदाहरणे पूर्ववन्निघातप्रतिषेधः, प्लुतश्च बोध्यः । चाहलोपे। लोपेऽत्राऽप्रयोग एव, शास्त्रेण लोपविधानाऽभावात् । अर्थप्रकरणादिना गम्यमानत्वाच्चाऽ. प्रयोगः । चः समुच्चये, अहशब्दः केवलार्थः। समानकर्तृके चशब्दस्य लोपः ।

Loading...

Page Navigation
1 ... 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716