Book Title: Laghu Siddhant Kaumudi Part 04
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

Previous | Next

Page 618
________________ प्रकरणम् ] सुबोधिनी-शेखरसाहता। [६१५ न क्वचिदित्यर्थः। अनवक्लृप्तावेव । ३६७० चादिलोपे विभाषा । (८१-६३) चवाहाहैवानां लोपे प्रथमा तिङ्विभकिनानुदात्ता। चलोपे । इन्द्र वाजेषु नोऽव । शुक्रा ब्रीहयो भवन्ति । श्वेता गा भाज्याय दुहन्ति । वालोपे । व्रीहिभिर्यजेत । यवैर्यजेत । ३६७१ वैवावेति च छन्दसि । (८-१-६४) अहवै देवानामासीत् । अयं वाव हस्त प्रासीत् । ३६७२ एकान्याभ्यां समर्थाभ्याम् । (८-१-६५) प्राभ्यां युका प्रथमा तिड्विभकिर्नानुदात्ता छन्दसि । अजामेको जिन्वति । अजामेकां रक्षति । तयोरन्यः पिप्पलं स्वाद्वति । समर्थाम्यां किम्-एको देवानुपातिष्ठत् । एक इति संख्यापरं नान्यार्थम् । ३६७३ यवृत्तानित्यम् । (८-१-६६) यत्र पदे यच्छब्दस्ततः परं तिहन्तं अनवक्लप्तावयमेवशब्दः । 'एवे चानियोगे' इति पररूपम् । चादि । वाजेष्विति। अवेति तिङन्तस्येह निघातः । निघाताभावस्य तूदाहरणान्तरं मृग्यम् । ननु पूर्वसूत्रे समानकर्तृके चलोप इत्युक्तम् । इह तु कर्तृभेदात् कथं चलोप इति चेत् । अवधार. णार्थे एवशब्दप्रयोगे समानकर्तृके चलोप इति नियमो न तु सर्वत्रेत्यस्त्यत्र चलोपः । वीहिभिर्यजतेति । पक्षे आद्युदात्तम् । द्वितीयं तु निहतमेव । एवं शेषेष्वपि यथा. दर्शनमुदाहरणम् । वैवाव । आभ्यां युक्तं प्रथमं तिङन्तमनुदात्तं वा स्यात् छन्दसि । वै स्फुटार्थे क्षमार्थे च । वाव प्रसिद्धौ स्फुटार्थे च । एकान्या । समौ तुल्यावर्थों ययोस्तौ समर्थो । शकन्धवादित्वात्पररूपम् । जिन्वतीति । जिविः प्रोणनार्थः । इदित्त्वान्नुम् । लट् तिप् शप् । अजामेकां रक्षतीति । अन्यां प्रीणयति अन्यां रक्षतीत्यर्थः। एक इति संख्यापरमिति । एकशब्दस्यानेकार्थत्वात् । तथा चोक्तम्-'एकोऽन्याथें प्रधाने च प्रथमे केवले तथा । साधारणे समानेऽल्पे संख्यायां च प्रयुज्यते ॥ इति । ननु साहचर्यादन्यार्थक एवैकशब्दो प्रहीष्यत इति चेत्सत्यम् । न साहचर्यमत्र प्रकरणे व्यवस्थापकमिति 'निपातैर्यद्यदिहन्ते'त्यत्रैवावीचाम । यद्व । नानाकर्तृके वहशब्दस्य। एवेत्यादरवधारणार्थकैवशब्दप्रयोगे सतीत्यर्थः । अवफ्लप्ताविति । असम्भावनायामित्यर्थः । न क्वचिद्भोक्ष्यसे न कचिदध्येष्यसे इत्यर्थः । इन्द्र वाजेष्विति । अवेति तिङन्तस्येह निघातः। निघाताऽभावस्य तूदाहरणान्तरं बोद्धयम् । शुक्ला व्रीहय इति । समानकर्तृके चतोप इति नियमोऽवधारणाथैवशब्दप्रयोगे न तु सर्वत्रेत्यस्ति चलोपः । पक्षे निहतं, पक्षे ग्राादातम् । वैवावेति। वै स्फुटार्थेऽक्षमायाच्च । 'वाव' इति प्रसिद्धौ, स्फुटार्थे च एकान्याभ्याम् । समर्थाभ्यां समानार्थाभ्यामित्यर्थः । अजामेकामिति । अन्यामित्यर्थः । जिविः-प्रीणनार्थः । अत्र प्रकरणे क्वचित्साहचर्याऽनाश्रयणज्ञापनार्थ समर्थग्रहणम् ।

Loading...

Page Navigation
1 ... 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716