________________
प्रकरणम् ] सुबोधिनी-शेखरसाहता। [६१५ न क्वचिदित्यर्थः। अनवक्लृप्तावेव । ३६७० चादिलोपे विभाषा । (८१-६३) चवाहाहैवानां लोपे प्रथमा तिङ्विभकिनानुदात्ता। चलोपे । इन्द्र वाजेषु नोऽव । शुक्रा ब्रीहयो भवन्ति । श्वेता गा भाज्याय दुहन्ति । वालोपे । व्रीहिभिर्यजेत । यवैर्यजेत । ३६७१ वैवावेति च छन्दसि । (८-१-६४) अहवै देवानामासीत् । अयं वाव हस्त प्रासीत् । ३६७२ एकान्याभ्यां समर्थाभ्याम् । (८-१-६५) प्राभ्यां युका प्रथमा तिड्विभकिर्नानुदात्ता छन्दसि । अजामेको जिन्वति । अजामेकां रक्षति । तयोरन्यः पिप्पलं स्वाद्वति । समर्थाम्यां किम्-एको देवानुपातिष्ठत् । एक इति संख्यापरं नान्यार्थम् । ३६७३ यवृत्तानित्यम् । (८-१-६६) यत्र पदे यच्छब्दस्ततः परं तिहन्तं अनवक्लप्तावयमेवशब्दः । 'एवे चानियोगे' इति पररूपम् । चादि । वाजेष्विति। अवेति तिङन्तस्येह निघातः । निघाताभावस्य तूदाहरणान्तरं मृग्यम् । ननु पूर्वसूत्रे समानकर्तृके चलोप इत्युक्तम् । इह तु कर्तृभेदात् कथं चलोप इति चेत् । अवधार. णार्थे एवशब्दप्रयोगे समानकर्तृके चलोप इति नियमो न तु सर्वत्रेत्यस्त्यत्र चलोपः । वीहिभिर्यजतेति । पक्षे आद्युदात्तम् । द्वितीयं तु निहतमेव । एवं शेषेष्वपि यथा. दर्शनमुदाहरणम् । वैवाव । आभ्यां युक्तं प्रथमं तिङन्तमनुदात्तं वा स्यात् छन्दसि । वै स्फुटार्थे क्षमार्थे च । वाव प्रसिद्धौ स्फुटार्थे च । एकान्या । समौ तुल्यावर्थों ययोस्तौ समर्थो । शकन्धवादित्वात्पररूपम् । जिन्वतीति । जिविः प्रोणनार्थः । इदित्त्वान्नुम् । लट् तिप् शप् । अजामेकां रक्षतीति । अन्यां प्रीणयति अन्यां रक्षतीत्यर्थः। एक इति संख्यापरमिति । एकशब्दस्यानेकार्थत्वात् । तथा चोक्तम्-'एकोऽन्याथें प्रधाने च प्रथमे केवले तथा । साधारणे समानेऽल्पे संख्यायां च प्रयुज्यते ॥ इति । ननु साहचर्यादन्यार्थक एवैकशब्दो प्रहीष्यत इति चेत्सत्यम् । न साहचर्यमत्र प्रकरणे व्यवस्थापकमिति 'निपातैर्यद्यदिहन्ते'त्यत्रैवावीचाम । यद्व ।
नानाकर्तृके वहशब्दस्य। एवेत्यादरवधारणार्थकैवशब्दप्रयोगे सतीत्यर्थः । अवफ्लप्ताविति । असम्भावनायामित्यर्थः । न क्वचिद्भोक्ष्यसे न कचिदध्येष्यसे इत्यर्थः । इन्द्र वाजेष्विति । अवेति तिङन्तस्येह निघातः। निघाताऽभावस्य तूदाहरणान्तरं बोद्धयम् । शुक्ला व्रीहय इति । समानकर्तृके चतोप इति नियमोऽवधारणाथैवशब्दप्रयोगे न तु सर्वत्रेत्यस्ति चलोपः । पक्षे निहतं, पक्षे ग्राादातम् । वैवावेति। वै स्फुटार्थेऽक्षमायाच्च । 'वाव' इति प्रसिद्धौ, स्फुटार्थे च एकान्याभ्याम् । समर्थाभ्यां समानार्थाभ्यामित्यर्थः । अजामेकामिति । अन्यामित्यर्थः । जिविः-प्रीणनार्थः । अत्र प्रकरणे क्वचित्साहचर्याऽनाश्रयणज्ञापनार्थ समर्थग्रहणम् ।