SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ ६१६ ] सिद्धान्तकौमुदी । [ तिङन्तस्वर नानुदात्तम् । यो भुक्रे यदव्यवायुर्वाति । अत्र व्यवहिते कार्यमिष्यते । ३६७४ पूजनात्पूजितमनुदात्तं काष्ठादिभ्यः । ( ८-१-६७) पूजनेभ्यः काष्ठादिभ्यः पूजितवचनमनुदात्तम् । काष्ठाध्यापकः । * मलोपश्च वक्तव्यः । दारुणाध्यापकः । प्रज्ञाताध्यापकः । समासान्तोदात्तत्वापवादः । एतत्समासे इष्यते | नेह दारुणमध्यापक इति वृत्तिमतम् । पूजनादित्येव पूजितग्रहणे यदङ्गिति । यद् श्रचतीति क्विन् । 'विष्वग्देवयोश्च -' इति टेरव्यादेशः । कथं पुनः पञ्चमोनिर्देश सति यदद्व्यङ् वायुवति इत्यादौ व्यवधाने भवत्यत आह अत्र व्यवहिते कार्यमिष्यत इति । अत्र च ज्ञापकगुत्तरसूत्रे मूल एवं स्फुटी भविष्यति । पूजनात् । 'काष्ठादिभ्यः -' इति वार्तिकं दृष्टं तदनुरोधेन पूजनादिति बहुवचनस्थान एकवचनमिति व्याचष्टे पूजनेभ्यः काष्ठादिभ्य इति । उत्तरसूत्रे तिक्ष्णादिदं सुबन्तविषयकम् । काष्ठाध्यापक इति । काष्ठादयोऽद्भुतपर्यायाः सन्तः पूजनवचना भवन्ति, समासविषयकं सूत्रमिदम् । उदाहरणे मयूरव्यंसकादित्वात्समासः । मलोपश्च वक्तव्य इति । दारुणमध्यापक इति । समासे कृते विभक्तेर्लुकि स्वाभाविकी मकारनिवृत्तिरित्यनेन वचनेनान्वाख्यायते इति वृत्तिन्यासकारयोर्मतम् । तदेतदाह इति वृत्तिमतमिति । भाष्यवार्तिककैयटास्तु श्रसमास एव क्रिया यद्वृत्ता । तद्यत्तमिति, न तु डतरडतमविभक्त्यन्तमेदेत्याग्रहः । इदश्च भाष्ये ध्वनितम् | त्र व्यवहिते इति । तेन 'यो जात एव पर्यभूष दित्यादौ निघातप्रतिषेधः सिद्धयति । अत्र मानन्तु 'पूजनात्पूजित 'मिति सूत्रे पूजितग्रहणम् । तद्धि 'काष्ठाध्यापकः' इत्यादौ अनुदात्तताविधानाय । तत्र 'काष्ठादिभ्यः' इति वार्तिकम् । तत्र पूजनादित्येव प्रत्यासत्त्या ससम्बन्धिकतया च पूजित परिग्रहे सिद्धे पूजितमहरणम. नन्तरप्रतिपत्त्यर्थं सदि६ प्रकरणे पञ्चमीनिर्देशेऽप्यानन्तर्यं नाश्रीयत इति ज्ञापयतीत्याहुः । 'यथेच्छप्रवृत्तौ वेति वाच्यम्' । यत्र क्वचन य॒ज॑ते॒ । [ यत्र क्वचन यज॑ते ] । अत्र पक्षे निहतम्, पक्षे आयुदात्तम् । पूजनात्पू । अत्र वृत्तिकृत् - 'काष्ठादिभ्य' इति सूत्रे पपाठ, तद्भ्रमात् । काष्ठादिगणपाठन सूत्रकारेणाऽपि ज्ञापितमेतत् । काष्ठादयोद्भुतपर्यायाः पूजनवचना भवन्ति । उत्तरसूत्रे तिग्रहणादिदं सुबन्तविषयम् । अत्र वृत्तिन्यासादयः - 'समासविषयमेतत् । काष्ठादारुणादीनां प्रवृत्तिनिमित्तिभूताध्ययनाभिरूप्यादिविशेषणत्वेऽसमानाधिकरण्यात्समासाऽप्राप्तौ मयूरव्यंसकादित्वात्समासः । तन्निमित्तविभक्तेलुकि काष्ठाध्यापकादिसिद्धि' रित्याहुः । भाष्यकारास्तु-असमासे एव क्रियाविशेषणीभूतानां दारुणमित्यादीनां मलोपो निपात्यते । युक्तश्चैतत् । समासाधिकाराऽभावात्, मयूरव्यसकादित्वे प्रमाणाऽभावाच्च । श्रत एव 'मलोपो वक्तव्यः'
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy