SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता [६१७ सिद्ध पूजितग्रहणमनन्तरपूजितलाभार्थम् । एतदेव ज्ञापकमत्र प्रकरणे पञ्चमी. निर्देशेऽपि नानन्तर्यमाश्रीयत इति । ३६७५ सगतिरपि तिङ् । (८-१-६८) पूजनेभ्यः काष्ठादिभ्यस्तिसन्त पूजितमनुदात्तम् । यत्काष्ठां प्रपचति । 'तिक तिङ' (३६३५) इति निघातस्य 'निपातैर्यत्' (३६३७) इति निषेधे प्राप्ते विधिरयम् । सगतिग्रहणाच गतिरपि निहन्यते । * गतिग्रहणे उपसर्गग्रहणमिष्यते । नेह। यस्काष्ठा शुक्रीकरोति। ३६७६ कुत्सने च सुप्यगोत्रादी। (८-१-६६ ) कुत्सने च सुबन्ते परे सगतिरगतिरपि तिङनुदात्तः । पचति विशेषणीभूताना दारुणभित्यादीनामसमास एवास्य सूत्रस्य प्रवृत्तिमिच्छान्त। मयूर. व्यंसकादित्वे नास्ति प्रमाणम् । हरदत्तोऽप्याह-यदि समासे एवेदमभिमतमभविष्यत्तदा समास इत्येवावक्ष्यत् । युक्तं चैतत् । न ह्यत्र समासाधिकारोऽस्ति येन समासे स्यात् । अस्मिन् पक्षे मलोपवचनं च सार्थकम् । पूजनादित्येव पूजितग्रहणे सिद्ध इति । पूजनस्य पूजितापेक्षत्वादिति भावः । अनन्तरपूजितलाभार्थ. मिति । 'पूजनात्पूजितम्' इति सूत्रे सामान्यगतमानन्तर्यविशेषणं विज्ञायत इति भावः । कथं पुनः पञ्चमीनिर्देश व्यवहितस्य प्रसा इत्याह एतदेवेति । ज्ञापकफलं तु 'यद्वृत्तानित्यम्' इत्युक्तम् । सगति । यत्काष्ठां प्रपचतीति । ये मलोपश्चेत्यनेन वाक्ये मलोपमाहुस्तेऽपि तिबन्ते परतो नैव लोपमिच्छन्ति । सगतिग्रहणाच गतिरपि निहन्यत इति । तुल्ययोगे अत्र सहशब्दः । यत्र तुल्ययोगे सहशब्द. स्तत्र द्वयोरपि कार्ययोगो भवति । तद्यथा सपुत्रो भोज्यतामित्युक्त पुत्रोऽपि भोज्यते । अपिग्रहणं यत्र गतिने युज्यते तत्र केवलस्यापि तिङन्तस्य यथा स्याद् गतिप्रयोगे इति यातिककृता प्रारब्धम् । एवञ्च दारुणमित्यादयः प्रयोगा असाधव एव, भाष्यविरुद्धत्वादिति ध्येयम्। पूजनात्किम् ? दारुणाध्यापकः। दारुणसंज्ञक इत्यर्थः । काष्ठादिभ्यः किम् ? शोभनाध्यापकः । सगतिरपि । अपिनाऽगतिः । तदाह तिङन्तमिति। न लुडित्यादिनिषेधापवादः । सगतिरिति । तुल्ययोगे सहशब्दः । तेन गतेरपि निघातमाहः। तिमहणं पूर्वसूत्रस्याऽतिविषयत्वलाभार्थम् । अत्रा. ऽपि गतिप्रहणेनोपसर्गस्यैव ग्रहणमिति 'चनचिदिति सूत्रे भाष्ये स्पष्टम । तेन 'यत्काष्ठा शुक्रीकरोती'त्यादौ 'निपातयद्यदीति प्रतिषेध एव । यत्काष्ठां प्रपचतीति । 'यत्काळं प्रपचती'त्यपपाठः, भाष्यविरोधात् , काष्ठा इत्याकारान्तस्यैव गणे पाहाच्च । काष्ठेति ह्रस्वं पठतां तु भाष्यविरोध एव । काष्ठा, दारुण, 'अज्ञात, पुत्र, वेश, अनाज्ञात, श्रनुज्ञात, अपुत्र, अयुत, अद्भुत, अनुक्त, भृश, घोर, सुख, परम, सु, अति । वृत् । कुत्सने च सु। ‘पदादिति निवृत्तम् । कुत्सनार्थे सुबन्ते परे
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy