________________
६१४ ]
सिद्धान्तकौमुदी। [तिङन्तस्वरप्राथमिकी । योगे किम्-पूर्वभूतयोरपि योगे निघातार्थम् । प्रथमाग्रहणं द्वितीयादेस्तिान्तस्य मा भूत् । ३६६७ हेति क्षियायाम्। (८-१-६०) हयुक्ता प्रथमा तिविभकिर्नानुदात्ता धर्मव्यतिक्रमे । स्वयं ह रथेन याति ३ । उपाध्याय पदातिं गमयति । 'क्षियाशी' (३६२३) इति प्लुतः। ३६६८ अहेति विनियोगे च । (८-१-६१ ) महयुका प्रथमा ति विभक्तिर्नानदाता नाना. प्रयोगे नियोगे क्षियायां च । स्वमह ग्रामं गच्छ। तियायाम् । स्वयमह रथेन याति ३ । उपाध्यायं पदाति नयति। ३६६६ चाहलोप एवेत्यवधारणम् । (८-१-६२) च अह एतयोर्लोपे प्रथमा तिङ्विभकिर्नानुदात्ता। देव एव प्राम गच्छतु । देव एवारण्यं गच्छतु । ग्राममरण्यं च गच्छस्वित्यर्थः । देव एव प्रामं गच्छतु । र म एवारण्यं गच्छतु । ग्राम केवलमरण्यं केवलं गच्छावित्यर्थः । इहाहलोपः। स च केवलार्थः । अवधारणं किम्-देव क्वेव भोयसे। मुष्टिहत्ययेति च मन्त्रे वेदभाष्ये स्पष्टम् । हेति। स्वयं ह रथेन यातीति । उपाध्याये पदातौ गच्छति सति शिष्यस्य रथेन गमनं प्रतिषिद्धमित्याचारभेदः । अहेति । अनेकस्मिन्प्रयोजने प्रेषणं विनियोगः । तदाह नानाप्रयोजने नियोगे इति । अनेकप्रयोजनो नियोगः प्रेषणम् । उदाहरणे पूर्वत्र प्रेषे प्लुतः, उत्तरत्र क्षियायाम् । चाहलोप । अवधारणाथैवशब्दप्रयोगे सति प्रथमं तिङन्तं नानुदात्तम् । सूत्रेण चाहलोपस्याविधानाद् अर्थप्रकरणादिना गम्यमानार्थत्वादप्रयोग एव लोपो विवक्षितः । चशब्दः समुच्चयार्थः । अहशब्दः केवलार्थः। समानकर्तृकेऽहलोपः । उदाहरणे चलोपं दर्शयति प्राममरण्यं चेति । क्केव भोत्यस इति । वादधि' 'इन्दं महो वा रजसः' इत्युत्तरवाक्ये इन्हें प्रति साति=धनदानम् अधि=
आधिक्येन ईमहे याचामहे । वैदिकनिघण्टौ याच्याकर्मसु ईमह इति पाठात् । कस्माल्लोकादित्याकाङ्क्षायामाह-इतः अस्माल्लोक.त्पार्थिवाद्वा दिवो वा महो= महतः प्रौढात् , रजसा=रजकाद् अन्तरिक्षलोकाद्वेति मन्त्रार्थः । ननु श्रुतस्यैव तिक. न्तस्योत्तरत्रानुषशात्कथं प्रथममेतदिति चेत् , अनुषवस्यापि औपाधिकमेदं पुरस्कृत्य प्राथम्याश्रयणेन निघातनिषेधस्य छन्दसि बहुशो दृष्टत्वात् । एतच्च वेदभाष्ये स्पष्टम् । हेति ति । धर्मोल्लवनं-तिया । उदाहरणे द्वितीयस्य निघातो भवत्येव हयोगाऽभावादिति बोद्धयम् । अहेति विनि । अनेकस्मिन् प्रयोजनं प्रेषणं विनियोगः। अस्योदाहरणे पूर्ववन्निघातप्रतिषेधः, प्लुतश्च बोध्यः । चाहलोपे। लोपेऽत्राऽप्रयोग एव, शास्त्रेण लोपविधानाऽभावात् । अर्थप्रकरणादिना गम्यमानत्वाच्चाऽ. प्रयोगः । चः समुच्चये, अहशब्दः केवलार्थः। समानकर्तृके चशब्दस्य लोपः ।