________________
प्रकरणम् ]
सुबोधिनी - शेखरसहिता
[ ६१३
गते । । ( ८-१-५७ ) एषु षट्सु परतस्तिङन्तं नानुदात्तम् । देवः पचति चन । देवः पचति चित् । देवः पचतीव । देवः पचति गोत्रम् । देवः पचतिकल्पम् । देवः पञ्चतिपचति । अगतेः किम्-देवः प्रपचति चन । ३६६५ चादिषु च । ( ६-१५८) चवाहाहैवेषु तिङन्तं नानुदात्तम् । देवः पचति च खादति च । श्रगतेरिस्येव । देवः प्रपचति च । प्रखादति च । प्रथमस्य 'चवायोगे' ( ३६६६ ) इति निघातः प्रतिषिध्यते । द्वितीयं तु निहन्यत एव । ३६६६ चवायोगे प्रथमा । (5१-५६ ) चवेत्याभ्यां योगे प्रथमा तिविभक्तिर्नानुदात्ता । गाश्च चारयति वीणां वा वादयति । इतो वो सातिमीमहे । उत्तरवाक्ययोरनुषञ्जनीयतिङन्तापेक्षयेयं
A
एष्विति । चन चित् इव गोत्रादि तद्धित आम्रेडित एष्वित्यर्थः । इहापि गोत्रादयः कुत्सनाभीक्ष्ण्ययोरेव गृह्यन्ते इति तिङो गोत्रादीत्यत्रैवोक्तम् । पचतिकल्पमिति । तत्रानुदात्त एव तद्धितो ग्राह्यः । अन्यत्र तद्धितस्वरेण तिङन्तस्वरो बाध्यते । श्रयं पचतिदेश्यः । चादिषु च । 'न चवाहा हैवमुक्ते' इति सूत्रं निर्दिष्टाश्चादयोऽत्र गृह्यन्ते संनिकृष्टत्वात् न तु 'चादयोऽसत्त्वे' इति सूत्रनिर्दिष्टाः विप्रकृष्टत्वात् । तदेतदाह चवाहावेषु परेष्वति । पचति च खादति चेति । उभयत्र खादतीत्यस्य निघातप्रसङ्ग एव नास्ति नानावाक्यत्वात् । चवायोगो हि समुच्चये विकल्पे वा सति भवति स चानेकस्य धर्म इति कृत्वोदाहृतम् । चवा । प्रथमेति । स्त्रीलिङ्गस्य निर्वाहमाह प्रथमातिङविभक्तिरिति । प्रथममुच्चारिता तिङविभक्तिरित्यर्थः । अगतेरिति प्रथमसूत्रे चानुकृष्टत्वादिह नानुवर्तते । उत्तरवाक्ययोरिति । 'दिवो वा पार्थिवादधि' | 'इन्द्रं महो वा रजसः' इत्येतयोरित्यर्थः । ननु श्रुतस्यैव तिङन्तस्योतरत्रानुषङ्गः तत्कथं प्राथम्यमिति चेत्, अनुषक्तस्याप्यौपाधिकं भेदं पुरस्कृत्य प्राथम्याश्रयणेन निघातनिषेधस्य छन्दसि बहुशो दृष्टत्वात् । एतच्चेदेव मन्त्रे नियमेन एवेति स्पष्टं भाष्ये । कुत्सनाभीक्ष्ण्ययोरेव गोत्रादीनि । नेह-सुखीकरोति गोत्रम् । श्रत्र निघात एव । चादिषु च । 'न चवाहेति सूत्रनिर्दिष्टाश्चादय एव गृह्यन्त सन्निकृष्टत्वात् तदाह चवेत्यादि । उदाहरणे खादतीत्यस्य न निघातप्रसङ्गः, नानावाक्यत्वात् । समुच्चयविकल्पयोरनेकधर्मत्वात्परं तदुक्तिः । चवायोग इति । 'चत्रायोगे प्रथमा' इत्युत्तरसूत्रेणेत्यर्थः । इदच वृत्तौ स्पष्टम् । चानुकृष्टत्वादत्राऽगतेरिति नानुवर्तते इति तदाशयः । ' चनचिदिवे'त्यत्र कैयटस्तु 'चवायोगे इति श्रत्राप्यनुवर्तते' इत्याह चवायो । प्रथमेत्यस्य प्रथमोच्चारितेत्यर्थः । योगग्रहणं पूर्वाभ्यामपि योगे निघातप्रतिषेधार्थम् । तद्ध्वनयन्नुदाहरति गाश्च चारयतीति । नियमोऽयं - 'प्रथमैव नान्ये 'ति । इतो वा सातिमिति । अस्य 'दिवो वा पार्थि
·
-