Book Title: Kruparaskosha
Author(s): Shantichandra Gani, Jinvijay, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 53
________________ ANA MALLAAAAAAAAAAALAasaapKALIMARAailained LAALAALALALANKALAJALALALAAMALALJALALALAMMATLAMRAAMKARAMINA धनुष्मतां पङ्क्तिषु मुख्यतां गतः स शब्दवेधी न कथं कुमारराट् ॥२४॥ तस्मिन् राज्यं निहितवान् हितवान् भूतलेऽखिले। योग्योऽसाविति जनको जानकीजानिसन्निभे ॥२५॥ चोलीबेगम इत्याख्या भाजनं प्रेमसम्पदाम् । राज्ञी राज्ञोऽभवत्तस्य लक्ष्मीर्लक्ष्मीपतेरिव ॥२६॥ सत्यप्यन्तःपुरे प्राज्ये साऽभूत्प्रेम्णेऽस्य भूरिणे । सतीषु सर्वतारासु रोहिणीव हिमद्युतेः ॥२७॥ यस्या असूर्यपश्याया अपि चित्रकरो हृदि । पतिव्रताधर्मजुषो वर्ण्यते पद्मिनीगुणः ॥२८॥ जिग्ये यद्वदनश्रिया कुमुदिनीप्राणप्रियश्चक्षुषोः संपत्त्या हरिणश्च विश्वनयनप्रेमोपदा प्रह्वया । स्थित्वैकत्र तयोर्जयाय तनुतस्तन्मन्त्रमेतावुभौ नो चेदम्बरचारि-भूमिचरयोरेकत्र वासः कुतः ॥२९॥ माणिक्यमुक्तामणिहेमजात विभूषणश्रेणिमसौ शरीरे । बिभर्ति यां प्रत्युतकायकान्ति - व्रातैरमुष्याः परिदीप्यते सा ॥३०॥ भुञानयोः सह तयोः क्षितिपाललक्ष्मी ___ कालः कियानतिजगाम निकामरामः । नैशः क्षणो गगनमण्डलभोगभाजोः संपूर्णचन्द्रवरचन्द्रिकयोरिवाशु ॥३१॥ १. अस्या मु.॥ २. नैशक्षणो कां. हं. मु.॥ T AALALAandiLMAN Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96