Book Title: Kruparaskosha
Author(s): Shantichandra Gani, Jinvijay, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 88
________________ Mini J AAMARRIALTH Hende जीवदो बुद्धिदो धर्मा-भयदो दृष्टि-मार्गदः । जापक(को) व्यापको बोद्धा-वतारी परमेश्वरः ॥४४॥ ऐश्वर्यादिगुणोपेतो भगवान् भास्करः प्रभुः । आसमुद्रान्तकीर्तिश्च सर्वदः शिवदात्मकः ॥४५॥ सर्वतीर्थोपदेष्टा च सर्वपाखण्डमोचकः। सर्वदर्शन(भ) क्ति (क्त)श्च गुणाब्धिर्गुणकेलिकृत् ॥४६॥ अजेयश्चञ्चलोऽचिन्त्यसामोऽसंख्यवाहनः । अवाच्यविभवाधीशोऽहंकाररहितो जयी ॥४७॥ पुण्यपापविधिप्रज्ञो व्यक्ताव्यक्तस्वरूपकः । बालगोपालसिद्धश्च यवनोऽभेद्यशासनः ॥४८॥ ब्रह्मचर्यरतो नित्यं भुक्तभोगी गृहस्थितिः । अलक्षो(क्ष्यो) लक्ष(क्ष्यवेधी च लक्षलक्षितलक्षणः॥४९॥ दशावतारमध्यस्थो दयाहृदयो यतः। सत्यवादी सत्ययुक्तः परनारीसहोदरः॥५०॥ शरण्या(ण्यो)ऽर्थिपरत्राणे वज्रपंजरसन्निभः। परपीडाहरो नित्य-मन्तर्यामी विचक्षणः॥५१॥ निरातङ्को निःकलङ्को निर्मायश्च निरामयी। निरंजनपदध्यानी नित्यदानोद्यतो जने ॥५२॥ गजप्रियो हरिश्रेष्ठो हरिनाथो हरिप्रभः। हरिज्ञानि(नो) हरिध्यानो हरिश्रीहरिशासनः ॥५३॥ सारंगकृष्णनिस्तारः सारसारंगलोचनः । भयसारंगनिस्तारः सारंगसमताधरः ॥५४॥ वंशसारंगवासेनो(न) सुरभीकृतविष्टपः। सारंगरागसंगीत गीतगीतयशोभरः ॥५५॥ सपुत्रपौत्रः सद्वंश्यः सकबंधशकलः कलः(?)। सुमित्रः स्वजनः साधुः सुकलत्रः सुशिष्यकः ॥५६॥ कल्पद्रुकल्पः कलिकामधेनु- रचिन्त्यचिन्तामणिसत्प्रभावः । अभीप्सितो(ता)पूरणकामकुम्भो जगद्गुरुः साहिरकब्बरोऽस्ति ॥५७।। 7 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96