Book Title: Kruparaskosha
Author(s): Shantichandra Gani, Jinvijay, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 68
________________ स्थानाय स्पृहयामि, तद्भज शुभे ! भूभामिनीभोगिनं संप्रत्येकनृपं चिरादकबरं येनासि न व्याकुला ॥११३॥ ध्रुवं द्विषामेव चकोरचक्षुषां निःश्वासवातेन तनीयसेरितः । कृपापरत्वेन सुखीकृताङ्गिनः प्रतापदीपस्तव दीर्घसंस्थितिः ॥११४॥ उद्वासितद्वेषिपुरोद्गतेषु सुप्राभावं कुरुषे तृणेषु । त्वत्स्पर्द्धयेव त्वदरातिभिस्तु दुरापता दन्तधृतैः कृता तैः ॥११५॥ अस्मिन भिल्लातकरसमभिज्ञानमादौ व्यधास्य नो चेद्रोहिण्युदितधिषणा तर्हि कस्मादवाप्स्यत् । चन्द्रं कान्तं विशदयशसा श्रीहमाऊसुतस्य श्वेतीभावं जगति गतवत्येकराज्याधिभर्तुः ॥ ११६ ॥ जगद्गुरूभूय जगत्त्रयीपति भवांश्च हिंसादि निराकरोत्यलम् । जनेषु भीस्तत्र तवैव भूयसी यस्मादनाज्ञाफलसन्निकृष्टता ॥ ११७ ॥ आदेश्यमात्मीयमिहैव सर्वं नियोज्य जातश्चरितार्थ ईशः । प्रवर्त्तयन् साधुवदेष' भूपः परां धुरामुद्वहतीशभक्तेः ॥११८॥ १. ० संस्थितः मु. ॥ २. ०बदेव कां. हं. मु. ॥ ३. ०भक्ते कां. हं. मु. ॥ ५५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96