Book Title: Kruparaskosha
Author(s): Shantichandra Gani, Jinvijay, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
PMERA
राज्यश्रीयौवनश्रीश्च सममेनं श्रिते उभे। सौभाग्यभाजनं कान्तं न का कामयतेऽङ्गना ॥५५॥ ददाति धातुः किल साधुवादं
धम्मिल्लबन्धोऽस्य शुभाननस्य । सम्यककृता सृष्टिरियं यदिन्दु
माप्तोऽपि राहुर्न विभुर्ग्रहीतुम् ॥५६॥ साम्राज्यभागयमहो ! भवितेति वर्णपङ्क्तिर्विधातुरिह वार्द्धकदोषवक्रा । सत्पञ्चमीन्दुकुटिल< निरीक्ष्य भाल
मस्येति चिन्तयति चेतसि चारुबुद्धिः ॥५७॥ कर्णायतस्मितविलोचनकैतवेन
विश्रान्तमस्ति मृगबालयुगं सलीलम् । नित्योदयः सकलता च सदा मुखेऽस्य
तेनैतदक्षतविधोर्न विशिष्यते किम् ॥५८॥ न्यायौचितीकरणतो रसनास्य साधून
संजीवयत्यखिलदुष्टभुजङ्गदष्टान् । न्यायेन पूर्वगदितेन नवीनराहो
रग्रासगोचरसुधारसपुष्टधारा ॥५९।।। इक्षोभिक्षोः कुले कोऽपि न कश्चिदतिशृङ्गभाक् । एतद्वचनमाधुर्यकोट्यंशमपि यो वहेत् ॥६॥ पीयूषकुण्डमिदमीयमुखं विभाति
शुद्धा सुधा बुधजनश्रवणप्रिया गीः । १. ०वक्ता का. मु.। २. “मुखं" टि. का. ॥ ३. ०माधुर्य ह. ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96