Book Title: Kruparaskosha
Author(s): Shantichandra Gani, Jinvijay, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 61
________________ । उपग्राह्यं गृह्णन् जनपदजनैरग्रनिहितं 'हमाऊवंशेन्दुर्जयति नृपतिः श्रीअकबरः ॥७२॥ उत्खाते प्रचलत्तुरङ्गमखुरैर्दानाम्बुभिर्दन्तिनां संसिक्ते क्षितिमण्डले परिवपन् बीजं स्वतेजोमयम् । गृह्णन् वीरयशःफलानि विमलान्येष प्रतापार्यमा पौरस्त्यान् विषयान् जगाम जगतीनाथः समुद्रावधीन् ॥७३॥ पूर्वं विमत्य गर्वान्धान संमन्यानुनतान्नृपान्। प्रतिवादी पुनर्वादी बुद्धिमानिव भूपतिः ॥७४॥ तत्प्राभृतं सुन्दरमाददानः स्वयंवरां तद्विजयश्रियं च । स्वीकृत्य कृत्यप्रवणश्चचाल वाचि स्थिरो भूपतिरन्वपीचि ॥७५॥ सृष्टया भ्रमन्मङ्गलदीपकोऽपि शुभाय शस्तः किमुतावनीपः। प्रजास्ववस्कन्दमतोऽयमीशो विचिन्तयामास न जातु चित्ते ॥७६॥ छायाभिराश्वासितवाजिकुञ्जरा फलैश्च सन्तर्पितवाहिनीजना। कृतोपकारा शयनेषु पल्लवै स्तापीतटीयास्य वनी पटीयसी ॥७७॥ १. हुमाऊ० मु.॥ २. ०रन्वयाचि कां. हं. मु.॥ ३. तत्त्वोपकारा हं. ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96