Book Title: Kruparaskosha
Author(s): Shantichandra Gani, Jinvijay, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 59
________________ केशोच्चयो यदधितिष्ठति नागराजो जात्वेष मण्डलधरः किल जानुदीर्घः ॥ ६१ ॥ कल्पद्रुशाखाद्वयमस्य दीर्घं करद्वयं चेतसि निश्चिनोमि । तच्छायमास्थाय नृणां स्थितानां कुतोऽन्यथाऽनेन करोपतापः ॥६२॥ ककुद्मतः स्कन्धसपत्नभूतं स्कन्धद्वयं बन्धुरमस्य जज्ञे । यतोऽतिभूयानपि सूद्वहः स्या च्चतुर्दिगन्तावधिभूमिभारः ||६३ || वक्षः कपाटविपुलं सुदृढं यदस्य नोत्तानतां तदधिगच्छति गूढमन्त्रम् । अन्तद्रुतं विशति वीक्षितमात्रमेव दुःखं परस्य बहुशो ननु कोऽत्र हेतुः || ६ || शोभाभिभूतकमलौ सरलाङ्गुलीकौ छत्रध्वजादिशुभलक्षणलक्षणीयौ । भातः क्रमौ भृशममुष्य मनुष्यनेतुः सेवार्थिनां सततकामितकल्पवृक्षौ ॥६५॥ अप्यन्यदङ्गं क्षितिपस्य यद्यत् सभासदां लोचनगोचरीस्यात् । सौभाग्यभङ्ग्या भुवनातिशायि तत्सर्वमासेचनकं बभूव ॥ ६६ ॥ १. ०ऽन्यथा तेन हं. ॥ २. तदहः मु. ॥ ३. ० मन्त्रः मां ॥ ४६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96