Book Title: Kruparaskosha
Author(s): Shantichandra Gani, Jinvijay, Shilchandrasuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 57
________________ उद्दामद्विरदद्विदन्तमुशली तस्यारुरुक्षोः सतो निःश्रेणी प्रतिभाति चेतसि महावीरेषु चूडामणेः। तद्भर्वान्धलतानिराकृतिकृतेऽमुष्यार्द्धचन्द्राकृतिः पाणिः साणिसृणिः स्मराङ्कशमहाधारान्धका(रा) हरेः (?) ॥५०॥ केशैः केसरिणं विलग्य शशवद्वध्नाति दोष्मानसौ धत्ते चित्रकरं चरित्रमरिघो ग्राह्ये पुनश्चित्रके । न क्षोभं भजते तरक्षुतरसा सिंहाः पशूनाममी पुंसिंहेन समं समत्वकथयापि स्युर्वराको यतः॥५१॥ यदा यदोष्णत्विषि शीतलत्विषौ धनुष्कैलामर्जुनगर्जतर्जनीम् । नन्वेतदीयां स्मरतस्तदा तदा स्वमादरादावृणुतोऽभ्रवर्मणा ॥५२॥ रणाङ्गणे कोशबिलाद्विनिर्गतः . श्रितस्तदीयं करचन्दनद्रुमम् । पतत्कृपाणः फणभृत्पिबत्यहो ! द्विषन्नृपप्राणसमीरवीचिकाः ॥५३॥ स्वर्गयात्रोन्मुखे ताते राज्यमेषोऽथ शिश्रिये । प्रभातचन्द्रे विरते यथा भानुर्नभस्तलम् ॥५४॥ १. मा. प्रतौ पार्श्वभागे "०रांधका हरेः' इति लिखितं कां. हं. मु. प्रतिषु "स्मराङ्कुशमहाधाक०" इति त्रुटित एव पाठः॥ २. दोष्णा० मु.। ३. धनुःकला० कां. हं. मां. ॥ ४.०गर्जनिर्जनीम् कां. हं. मु.॥ ५. ०वीचिकां हं. । ०वीचिका मु. । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96