Book Title: Kirtikala
Author(s): Hemchandracharya, Munichandrasuri
Publisher: Sha Bhailal Ambalal Petladwala

View full book text
Previous | Next

Page 147
________________ श्रीवीतरागस्तवे पञ्चदशः प्रकाशः भावः । यदुक्तम्--" न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स दोषभाक्” इति ॥ ६ ॥ भगवदनुसारिणोऽपि सज्ज्ञानित्वात्पूज्या इति तान्नमस्करोतितेभ्यो नमोऽञ्जलिरयं तेषां तान समुपास्महे । त्वच्छासनाऽमृतरसरात्माऽसिच्यताऽन्वहम् ॥७॥ तेभ्य इति - भगवन् !, यैः - यत्प्रकारैः शुभाशयः, आत्मा-निजात्मा, त्वच्छासनामृतरसैः त्वच्छासनान्येवाऽलौकिकशाश्वतानन्दमयमोक्षप्रदत्वादमृतरसा इव, तैः, बहुवचनं विषयबहुत्वापेक्षया बोध्यम् , किञ्च बहुवचनेन भगवच्छासनस्य साकल्येनैव ग्रहणमिष्टमित्यपि सूच्यते । तैः कृत्वा, अन्वहम् अहरहः, न तु यदाकदाचिदेव, असिच्यत-आर्द्राकृतः, येऽनिशं त्वच्छासनारा. धनपरायणा इति सारार्थः । तेभ्यो नमः, तेषाम् , कृते इति शेषः, अयम् सद्य एव, अञ्जलिः = करसम्पुटम् , प्रार्थयामीति यावत् । तान् , समुपास्महे-वरिवस्यामः । त्वद्भक्तोऽपि तवेवो. पचारमहेति, पूतात्मत्वादिति भावः ॥७॥ तदेवं नमस्कारादिना प्रवृद्धभक्तिभर आहभुवे तस्यै नमो यस्यां तव पादनखांशवः । चिरं चूडामणीयन्ते ब्रूमहे किमतः परम् १ ॥८॥ भुवे इति-भगवन् !, यस्याम् यत्प्रकारायां भुवि, तव - सर्वलोकपूज्यस्य, पादनखांशवः चरणनखकिरणाः, चूडामणीयन्ते Jain Education International 2010_For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190