Book Title: Kirtikala
Author(s): Hemchandracharya, Munichandrasuri
Publisher: Sha Bhailal Ambalal Petladwala
View full book text
________________
१६८
श्रीवीतरागस्तवे विंशतितमः प्रकाशः
यतामित्यर्थः । मलस्य हि जलेन क्षालनमुचितमेव । भगवद्दर्शनं दुरितापहारकममन्दानन्दजनकं चेत्यतस्तदप्यवश्यमेष्टव्यमितिभावः ॥२॥ दुरितान्तरशोधनाय प्रायश्चित्तमपीष्टमाहत्वत्पुरो लुठनै र्भूयान्मद्भालस्य तपस्विनः । कृताऽसेव्यप्रणामस्य प्रायश्चित्तं किणावलिः ॥ ३ ॥
त्वदिति - भगवन् !, त्वत्पुरः = त्वदग्रे त्वत्पादपीठ इति यावत्, लुठनैः=भक्तिभरेण भूयोभूय आलोटनैः कृत्वा, जातेतिशेषः । किणावलिः - रूढव्रणपदश्रेणिः, तपस्विनः = औचित्यादुपस्थितत्वाच्च त्वत्पुरोलुठनरूपतपः शीलस्य मद्भालस्य= मल्ललाटफलकस्य, कृताऽसेव्यप्रणामस्य = कृतोऽसेव्यस्य रागादिमतोऽनुपासनीयस्य यः प्रणामोऽत्र भवे परभवेषु वा, तस्य, यथाकथञ्चिद्विहिताऽप्रणम्यप्रणामजन्यदुरितस्येति यावत् । प्रायश्चित्तम् = दुरितविशोधनात्मकम् भूयात् = भवत्विति प्रार्थये । दुरितस्य प्रायश्चितमुचितमेव, येन च कृतं दुरितम्, प्रायश्चित्तमपि तेनैब विधेयमिति भावः । अप्रणम्यप्रणामो दुरितहेतुः । प्रायश्चित्तेन तदुरितशुद्धः पुनस्तथा न करोतीति भवानेव सदा प्रणम्यो मम भूयादिति तात्पर्यम् ॥ ३॥
साम्प्रतं भावनाशुद्धिमिच्छन्नाह
मम त्वद्दर्शनोद्भूताश्विरं रोमाञ्चकण्टकाः । तुदन्तां चिरकालोत्थाम सद्दर्शनवासनाम्
Jain Education International 2010_dor Private & Personal Use Only
11 8 11
www.jainelibrary.org
Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190