Book Title: Kirtikala
Author(s): Hemchandracharya, Munichandrasuri
Publisher: Sha Bhailal Ambalal Petladwala
View full book text
________________
१७०
श्रीवीतरागस्तवे विंशतितमः प्रकाशः
शुभज्ञानचारित्रादिपरिणामाश्च, तासु । अत्र ज्योत्स्नापदोक्त्या वक्त्रे चन्द्रसादृश्यं ध्वन्यते । यद्वा त्वद्वक्त्रं त्वत्कान्तिस्त्वज्ज्योत्स्ना भामण्डलं सद्वस्तुप्रकाशकतया निर्मलतया च ज्योत्स्नातुल्यं सम्यग्दर्शनं च, तास्वित्यर्थः । सुधासु-अमृतेष्विव, निपीतासु = सादरं विलोकितास्वधिगतासु च, सतीष्विति शेषः । यद्वा निपानविषयीक्रियमाणास्वित्यर्थः । भावारम्भे क्तः । एतेन भगवद्वक्त्रादीनाममृतवद्दौलभ्यं हितकरत्वं च सूच्यते । निर्निमेषता=निमेषोऽक्षिमुद्रणम् , कमलपक्षे दर्शनपक्षे च सङ्कोचःप्रतिपातो वा, तद्रहितता, प्राप्यताम् लभ्यताम् । त्वदर्शने तृप्त्यभावान्निमेषं विना त्वां द्रष्टुमिच्छामि, किञ्चाऽधिगतं सम्यग्दर्शनं मा प्रतिपप्तत् । निर्निमेषत्वसाधयादमरता च जायताम् । सुधापानाद्धयमरत्वमुचितमेव । ममाऽप्रतिपाति सम्यग्दर्शनं सर्वदा त्वदर्शनं च जायतामिति यावदिति भावः । यदि चाऽत्र ज्योत्स्नाभिः कमलविकासः कविसमयविरुद्ध इति विभाव्यते, तदा यौगिकार्थपरतयाऽम्भोजपदस्य कुमुदे वृत्तिर्बोध्या, "कल्हारकैरवमुखेष्वपि पङ्कजेष्वि" त्यादिवदिति ध्येयम् ॥५॥
अङ्गैस्त्वदुपासनैव ममेष्टमित्याहत्वदास्यलासिनी नेत्रे त्वदुपास्तिकरौ करौ । त्वद्गुणश्रोतृणी श्रोत्रे भूयास्तां सर्वदा मम ॥६॥ त्वदास्येति-भगवन् !, मम, नेत्रे, त्वदास्यलासिनी
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190