Book Title: Kirtikala
Author(s): Hemchandracharya, Munichandrasuri
Publisher: Sha Bhailal Ambalal Petladwala

View full book text
Previous | Next

Page 184
________________ कीर्तिकलाव्यास्याविभूषितः १७१ तवाऽऽस्ये मुखे विषये यो लासो विलासो व्यापारः, सोऽस्त्यनयोरिति ते तादृश्यों, त्वन्मात्रमुखेक्षणैकताने इत्यर्थः । सर्वदा भूयास्ताम् । अप्रेक्ष्यप्रेक्षणोद्भूतमलक्षालना यथा पुन नाऽऽपतेदिति भावः । तथा, करौ, ममेति सम्बव्यते । त्वदुपास्तिकरौर तवोपासनाविधिपरायणौ, अन्यस्याऽनुपास्यत्वादिति भावः । सर्वदा भूयास्तामिति सम्बव्यते । किञ्च, श्रोत्रे-कर्णी, ममेत्यनुषज्यते । त्वद्गुणश्रोतृणी-तव गुणश्रवणशीले, सर्वदा भूयास्ताम् । अन्यस्याश्रोतव्यत्वादनिष्टत्वादिति भावः ॥६॥ वाण्या अपि वीतरागगुणस्तुतिमात्रपरत्वमिच्छन्नाहकुण्ठाऽपि यदि सोत्कण्ठा त्वद्गुणग्रहणं प्रति । ममैष भारती तर्हि स्वस्त्येतस्यै किमन्यया ॥७॥ कुण्ठेति-भगवन् !, मम, भारती = वाणी, कुण्ठा = वस्तुप्रतिपादनाऽपट्वी, अपिना तस्या गुणग्रहणं प्रति योग्यताऽ. भावः सूच्यते । त्वद्गुणग्रहणम् त्वगुणवर्गनं प्रति, त्वद्गुणवर्णनमभिलक्ष्येत्यर्थः । यदि, सोत्कण्ठा = लालसावती, त्वद्गुणवर्णने यथाशक्ति सव्यापारेति यावत् । तर्हि, एतस्यै = मम वाण्यै, स्वस्ति = कल्याणमस्तु । कुण्ठाऽपि सती सैवेष्यते मया, यतो हीनोऽपि शुभाशयः प्रशस्यते, न तु महानप्यशुभाशय इति भावः । अत एव, अन्यया अन्यादृश्या, त्वद्गुणवर्णनापराङ्मुख्या पट्ट्याऽपि, किम् ! = न प्रयोजनमित्यर्थः । तस्या गुणपराङ्मुखत्वाद्गुणपरत्वाचाऽनर्थमूलत्वादनेषणीयत्वादिति भावः ॥७॥ Jain Education International 2010_Bor Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190