Book Title: Kirtikala
Author(s): Hemchandracharya, Munichandrasuri
Publisher: Sha Bhailal Ambalal Petladwala
View full book text
________________
(11)
कीर्तिकलाब्याख्याविभूषितः
१६९
ममेति-भगवन् !, मम, त्वद्दर्शनोद्भूताः = तव दर्शनेनोद्भूताः प्रकटिताः, चिरम्-चिरकालस्थायिनः, रोमाञ्चकण्टका: रोमाञ्चा: पुलकाः कण्टका इव, ते, दर्शनेन हर्षप्रकर्षः स्थायीति तदुद्भवानां कण्टकानां स्थायित्वमिति भावः । चिरकालोत्थाम्= अनादिकालाद्भवन्तीम् , असद्दर्शनवासनाम् = मिथ्यादर्शनसंस्कारम् , तदन्ताम = पीडयन्तु, उत्खन्य शोधयन्तु । मिथ्यादर्शनवासनायाः कण्टकवदुःखजनकत्वात्तस्या रोमाञ्चकण्टकेनोद्धारौचित्यम् । एतेन भगवदर्शनेन मिथ्यात्वं नश्यति, ततश्च भावनाशुद्धिरयत्नसिद्धेति ध्वन्यते ॥ ४ ॥
___ स्वस्याऽत्युत्कण्ठिततया भगवद्दर्शने निमेषात्मकमपि नान्तरीयकमन्तरायमनिच्छन् भङ्ग्याऽप्रतिपाति सम्यक्त्व प्रार्थयते
त्वद्वक्त्रकान्तिज्योत्स्नासु निपीतासु सुधास्त्रिव । मदीय लोचनाऽम्भोजैः प्राप्यतां निर्निमेषता ॥५॥
त्वदिति --भगवन् !, मदीयैः, लोचनाम्भोजैः=लोचनानि नेत्रे सम्यग्दर्शनञ्च । नेत्रस्येन्द्रियरूपस्य ग्रहे तस्य द्वित्वाद्बहुवचनमनन्वितं स्यादिति बहिरङ्गाऽन्तरङ्गलोचनग्रहोऽत्र विवक्षितः स्तुतिकृत इत्यवधेयम् । तान्याकृतिसाम्याद्विकाससाधर्म्याचाऽम्भोजानि कमलानीव, तैः कर्तृभिः । त्वद्वक्त्रकान्तिज्योत्स्नासुतव वक्त्रस्य, लक्षणया ततो निर्गताया उक्तेश्व, या कान्तिः शोभा, पक्षे यथार्थत्वेन कमनीयता, सा च, ज्योत्स्नाः प्रभाः, पक्षे ज्योत्स्ना इव सद्वस्तुप्रकाशकत्वान्निर्मलत्वाच्च सम्यग्दर्शनजनिताः
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190