Book Title: Kirtikala
Author(s): Hemchandracharya, Munichandrasuri
Publisher: Sha Bhailal Ambalal Petladwala
View full book text
________________
कीर्तिकलाव्याल्याविभूषितः
१६७
मयि-स्तोतरि, पादपीठलुठन्मूर्ध्नि पादस्य न्यासेन सम्पर्कात्पादसम्बन्धि यत्पीठमासनम्, तत्र लुठन्नालोटमानो मूर्धा मस्तको यस्य, तादृशे सति, भक्त्या प्रणामकाले पादपीठन्यस्तमस्तके सतीत्यर्थः । एतेन पादरजोनिवेशाऽवसर उपपादितः । चिरम् = दीर्घकालम् , यावन्न मुक्तिस्तावदिति यावत् । निविशताम्-संश्लिप्यतु । आमुक्ति तव प्रणामपर एव यथास्यामिति हृदयम् । त्वत्सेवैव सकलशर्ममूलमिति सैव मम परमिष्टमिति भावः ॥१॥
दुरिताऽपाकरणमपीष्टमित्याहमदृशौ त्वन्मुखासक्ते हर्षवाष्पजलोर्मिभिः । अप्रेक्ष्यप्रेक्षणोद्भूतं क्षणात्क्षालयतां मलम् ॥२॥
मदिति-भगवन् !, मदृशौ-मदीये नेत्रे, त्वन्मुखासक्ते= तव मुखे आसक्ते तदर्शनकताने सत्यौ, हर्षबाष्पजलोमिभिः = हर्षेण यद्वाष्परूपं जलं तस्योर्मि भिः परम्पराभिः कृत्वा, हर्षातिरेकाद्धि नेत्रतो जलं निःसरतीति भावः । एतेन वीतरागमुखदर्शनस्याऽनेकजन्मपुण्योपचयलभ्यतया दुर्लभत्वादत्यन्तमिष्टत्वात्तल्लाभोऽवश्यं हर्षप्रकर्षाय जायते इति सूच्यते । अप्रेक्ष्यप्रेक्षणोद्भूतम्= अप्रेक्ष्यस्याऽनवलोकनीयस्य कुतीर्थिकतद्देवादे रागादिहेतुभूतपरस्त्र्यादेश्च, प्रेक्षणेनाऽवलोकनेनोद्भूतमुपार्जितम् , इहजन्मन्यन्यजन्मनि चेति शेषः । मलम् दुरितम् , अप्रेक्ष्यप्रेक्षणं हि प्रत्यवायहेतुरिति भावः । क्षणात् = अचिरेणैव, थालयताम् = परिमृष्टाम् , शोध
Jain Education International 2010_Bor Private & Personal Use Only
___www.jainelibrary.org
Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190