Book Title: Kirtikala
Author(s): Hemchandracharya, Munichandrasuri
Publisher: Sha Bhailal Ambalal Petladwala

View full book text
Previous | Next

Page 178
________________ तथा, अपरे, अनन्ताः, निर्वास्यन्ति = भविष्यत्कालेऽपि मुक्तिं गमिष्यन्ति । एवञ्च कालत्रयेऽपि फलवत्त्वनिर्णये सैवाज्ञाऽऽराधनीया सर्वैरिति ध्वन्यते ॥७॥ ननु भवतु साज्ञा तथा, किन्त्वसुकरा चेत्कथमाराध्या सर्वैरित्यतो वीतरागाज्ञाराधने सौकर्यमाह हित्वा प्रसादनादैन्यमेकयैव त्वदाज्ञया । सर्वथैव विमुच्यन्ते जन्मिनः कर्मपञ्जरात् ॥८॥ इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितश्रीवीतरागस्तवे एकोनविंशतितमः प्रकाशः ॥१९॥ हित्वेति-भगवन् !, प्रसादनादैन्यम् = परेष्टदेवप्रसादार्थ क्रियमाणमलीकगुणादिस्तुतिपूजादिरूपचाटुसम्भावित दैन्यं स्वलाघवम् , हित्वा त्यक्त्वा, अलीकोपायस्य निष्फलत्वात्प्रत्युताऽशुभोपचयनिमित्तत्वेनानर्थपरम्पराऽऽपादकत्वात्तस्य त्याग एव वरम् , जिनस्तु वीतराग इति तत्र प्रसादनादैन्यस्य न कोऽप्युपयोग इत्यत एव तत्र तत्त्याग इति भावः । ननु तर्हि कथमिष्टसिद्धिरिति चेत्तत्राह-एकया केवलया, त्वदाज्ञया आश्रवत्यागसंवरोपादानरूपयैव, एवकारेण प्रसादनादैन्यादेव्यवच्छेदः । आराधितयेति शेषः । जन्मिनः = प्राणिनः, “प्राणी तु चेतनो जन्मी” त्यमरः । कर्मपञ्जरात-कर्मण्येव बन्धकत्वात्पञ्जरमिव, ततः, सर्वथा = सर्व. प्रकारेण, एवकारो भिन्नक्रमः, विमुच्यन्त एव । नाऽत्र सन्देह Jain Education International 2010_Bor Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190