Book Title: Kirtikala
Author(s): Hemchandracharya, Munichandrasuri
Publisher: Sha Bhailal Ambalal Petladwala

View full book text
Previous | Next

Page 176
________________ कीर्तिकलाव्याख्याविभूषितः १६३ उपादेयः ग्राह्यः, आचरणीय इत्यर्थः । कर्मक्षयादिना मोक्षोपायत्वादिति भावः । इत्येवम् , हेयोपादेयगोचरा हेयोपादेयविघया, किं हेयं किमुपादेयमित्येवं विवेकदानपूर्वकं हेयेषु निवृत्तेरुपादेयेषु च प्रवृत्तेः प्रयोजिकेत्यर्थः । इयम् उक्तप्रकारा, ते= तव निर्हेतुकदयावतः, आज्ञा-उपदेशः, आकालम्-कालमभिव्याप्य, अनाद्यनन्तकालं यावदियमेकरूपैव, नतु तीर्थान्तरवयुगे युगे परिवर्तनशीलेति भावः ॥५॥ आश्रवसंवरयोहेयोपादेयत्वयोर्हेतुमाह-- आश्रवो भवहेतुःस्यात्संवरो मोक्षकारणम् । इतीयमाईती मुष्टिरन्यदस्याः प्रपञ्चनम् ॥६॥ आश्रव इति-भगवन् !, आश्रवः, भवहेतुः भवानुबन्धी, स्यात् । कर्मबन्धहेतुत्वात्तस्येति भावः । तथा, संवरः, मोक्षकारणम् । तस्य कर्मक्षयहेतुत्वादिति भावः । अतएवाऽऽश्रवो मुमुक्षुणा हेयः संवरश्योपादेय इति तात्पर्यम् । ननु श्रुतं द्वयनेकद्वादशभेदम् , तत्र च गणशो हेया उपादेयाश्चोपदिष्टाः, एवञ्च द्वयोरेव विशिष्योपन्यासे भवतः क आशय इति चेत्तत्राह - इति-उक्तप्रकारा, इयम् = आश्रवसंवरयोहयोपादेययोविशिष्योक्तिः, आहती = अर्हतां वीतरागस्य सम्बन्धिनी, मुष्टिः = सारसमहः, वीतरागेण यदुपदिष्टं तत्रैतद्वयमेव मूलाधारः । अतोऽनयोरेव विशिष्योपन्यासः, ननु तर्हि शेषः किमित्यपेक्षायामाह-अन्यत् Jain Education International 2010_Bor Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190