Book Title: Kirtikala
Author(s): Hemchandracharya, Munichandrasuri
Publisher: Sha Bhailal Ambalal Petladwala
View full book text
________________
१६२
श्रीवीतरागस्तवे एकोनविंशतितमः प्रकाशः
आज्ञाऽऽराद्धा विराद्धा च शिवाय च भवाय च ॥४॥
वीतरागेति-वीतराग !, तव, सपर्यायाः = पूजामपेक्ष्य, "पूजा नमस्याऽपचितिः सपर्याऽर्चाऽर्हणाः समा" इत्यमरः । आज्ञापालनम् = त्वदुपदिष्टानुष्ठानम् , परम् = उत्कृष्टम् । नन्वेतत्कुत इत्यपेक्षायामाह-आज्ञा, आराद्धा-यथावत्पालिता सती, शिवाय मोक्षाय, मोक्षप्राप्तिमार्गस्यैव भगवतोपदिष्टत्वादिति भावः । विराद्धाप्रमादादिभिः खण्डिता कुतर्कादिना विगोपिता वा, चेनाज्ञाऽनुषज्यते । भवाय = भवप्रयोजककर्मबन्धाय, चद्वयं समुच्चये । स्यादिति शेषः । मुक्तिप्रदानुष्ठानस्याऽकरणे दूषणे वा भवप्रदानुष्ठान एव सचेतनानां शरीरिणां सर्वथा निष्क्रियत्वासम्भवात्प्रवृत्तिः स्यात् । तृतीयस्य कस्यापि मार्गस्याऽभावात् । पूजा तु द्रव्यस्तवरूपा भावस्तवे सति नाऽत्यन्तमपेक्षिता । भावं विना च पूजा नेष्टफलायाऽलमिति सपाया आज्ञापालनं परमिति भावः ॥ ४ ॥
का साऽऽज्ञेत्यपेक्षायामाहआकालमियमाज्ञा ते हेयोपादेयगोचरा । आश्रवः सर्वथा हेय उपादेयश्च संवरः ॥५॥
आकालमिति-भगवन् !, आश्रवः कर्मबन्धप्रयोजकः कायवाङ्मनोयोगः, सर्वथा सर्वप्रकारेण कायेन मनसा वचसा कृतानुमतिकारितैश्च । हेयः त्याज्यः, भवहेतुत्वादिति भावः । संवरः उक्ताश्रवनिरोधरूपं सावधविरत्यादिकम् , चः समुच्चये ।
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190