Book Title: Kirtikala
Author(s): Hemchandracharya, Munichandrasuri
Publisher: Sha Bhailal Ambalal Petladwala
View full book text
________________
१६०
श्रीवीतरागस्तवे एकोनविंशतितमः प्रकाश:
ननु यदि देवान्तरेणाऽपीष्टं सिद्धयति, तर्हि किमर्थं तत्रौदासीन्यमिति चेत्तत्राह
निगृह्य कोपतः कांश्चित्कांश्चित्तुष्टयाऽनुगृह्य च । प्रतार्यन्ते मृदुधियः प्रलम्भनपरैः परैः ॥२॥
निगृह्येति-भगवन् !, प्रलम्भनपरैः प्रतारणैकव्यापारैः, परैःपरतीर्थिकदेवैः. कांश्चित-स्वभक्तान , तष्टया-प्रसादेन. अनुगृह्यवरप्रदानादिना सन्तोष्य, कांश्चित-स्वद्वेषिणोऽसुरादीन् , कोपतः= क्रोधेन हेतुना, निगृह्य दण्डयित्वा, चः समुच्चये । तोषको. पयोः सतोरेषैव गतिरिति भावः । विष्णुशिवादीनां कोपतोऽसुरादिहननं प्रसादतो देवाद्यनुग्रहश्च पुराणादिवर्णितमिहाऽनुसन्धेयम् । मृदुधियःअल्पमतयः, प्रतार्यन्ते-अहं समर्थ इति मिथ्या बोधयित्वा स्वमभि समाकृष्यन्ते । ततो ह्यनुग्रहवदवसरे निग्रहस्याऽपि सम्भवात तेषां भयास्पदत्वात्कथञ्चिन्निकृष्टफलस्यैव लाभाच्च स्वयमसिद्धत्वात्पर. साधनयोग्यताऽभावाच्च मुमुक्षूणां तद्विषये औदासीन्यस्यैवौचित्यात् । न च तैः प्रतारणभयम्, वीतरागस्मरणेन दृढबुद्धेः । रागवन्तस्तादृशा देवा हेया एव । वीतरागस्मरणेनैव च कृतकृ. त्यतालाभ इति यावदिति भावः ॥२॥
ननु यदि वीतरागः, स न निग्रहपरायणो यथा, तथा नानुग्राहकोऽपीति तदुपासनया दूरे कृतकृत्यता, जलताडनवत्त. देकान्तेनैव निष्फलमिति चेत्तत्राह
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190