SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १६० श्रीवीतरागस्तवे एकोनविंशतितमः प्रकाश: ननु यदि देवान्तरेणाऽपीष्टं सिद्धयति, तर्हि किमर्थं तत्रौदासीन्यमिति चेत्तत्राह निगृह्य कोपतः कांश्चित्कांश्चित्तुष्टयाऽनुगृह्य च । प्रतार्यन्ते मृदुधियः प्रलम्भनपरैः परैः ॥२॥ निगृह्येति-भगवन् !, प्रलम्भनपरैः प्रतारणैकव्यापारैः, परैःपरतीर्थिकदेवैः. कांश्चित-स्वभक्तान , तष्टया-प्रसादेन. अनुगृह्यवरप्रदानादिना सन्तोष्य, कांश्चित-स्वद्वेषिणोऽसुरादीन् , कोपतः= क्रोधेन हेतुना, निगृह्य दण्डयित्वा, चः समुच्चये । तोषको. पयोः सतोरेषैव गतिरिति भावः । विष्णुशिवादीनां कोपतोऽसुरादिहननं प्रसादतो देवाद्यनुग्रहश्च पुराणादिवर्णितमिहाऽनुसन्धेयम् । मृदुधियःअल्पमतयः, प्रतार्यन्ते-अहं समर्थ इति मिथ्या बोधयित्वा स्वमभि समाकृष्यन्ते । ततो ह्यनुग्रहवदवसरे निग्रहस्याऽपि सम्भवात तेषां भयास्पदत्वात्कथञ्चिन्निकृष्टफलस्यैव लाभाच्च स्वयमसिद्धत्वात्पर. साधनयोग्यताऽभावाच्च मुमुक्षूणां तद्विषये औदासीन्यस्यैवौचित्यात् । न च तैः प्रतारणभयम्, वीतरागस्मरणेन दृढबुद्धेः । रागवन्तस्तादृशा देवा हेया एव । वीतरागस्मरणेनैव च कृतकृ. त्यतालाभ इति यावदिति भावः ॥२॥ ननु यदि वीतरागः, स न निग्रहपरायणो यथा, तथा नानुग्राहकोऽपीति तदुपासनया दूरे कृतकृत्यता, जलताडनवत्त. देकान्तेनैव निष्फलमिति चेत्तत्राह Jain Education International 2010_Bor Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy