SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ (11) कीर्तिकलाभ्याख्याविभूषितः १६१ - अप्रसन्नात्कथं प्राप्यं फलमेतदसङ्गतम् ।। चिन्तामण्यादयः किं न फलन्त्यपि विचेतनाः १ ॥३॥ अप्रसन्नादिति-भगवन् !, अप्रसन्नात् प्रसादशून्यात्, वीतरागत्वात्तस्य प्रसादाद्यभावात् , रागवान् हि प्रसीदतीति भावः । फलम् अभीष्टम् , कथम् केन प्रकारेण, प्राप्यम् लभ्यम् ?, नैव लभ्यमित्यर्थः । प्रसन्नो हि कोऽपि फलं ददाति । अन्यथा तु सर्वत एव सर्वस्यैव फलप्राप्तिः सुकरा स्यादिति भावः । एतत= ईदृशः पर्यनुयोगः, असङ्गतम् दृष्टान्तविरुद्धम् । किं तदृष्टान्तमित्यपेक्षायामाह-विचेतना: चैतन्यरहिताः, जडा इत्यर्थः, अपि, चिन्तामण्यादयः चिन्तमणिप्रभृतयो रत्नादयः, आदिना कामकलशादिपरिग्रहः । न, फलन्ति, किम् अभीष्टं न साधयन्ति किम् ?, अपि तु साधयन्त्येव, वस्तूनामचिन्त्यस्वभावत्वात् । अपिना यत्राऽचेतनाः फलन्ति, तत्र सचेतनाः फलन्तीति किम्वक्तव्यमिति सूच्यते । चिन्तामण्यादयो ह्यचेतनत्वात्प्रसादं विनैव यदि चिन्तामात्रेण फलन्ति । तर्हि सचेतनानां वीतरागाणां लोकोत्तराचिन्त्यचरिताणां स्मरणं फलेदेव । एवं चाऽप्रसन्नान्न फलप्राप्तिसम्भव इति वार्ता दृष्टान्तविरुद्धत्वादसङ्गतेति सारार्थः । चिन्तामणिवद्वीतरागचिन्तनं सर्वेष्टप्रदमिति भावः ॥३॥ एवं स्मरणं समर्थ्याज्ञापालनं समर्थयन्नाहवीतराग ! सपर्यायास्तवाज्ञापालनं परम् । Jain Education International 2010_Bor Private & Personal Use Only ___www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy