________________
एकोनविंशतितमः प्रकाशः न केवलं विविधस्तवेन कृतार्थता, अपि तु स्मरणेनाज्ञा-- राधनेन चेत्यनुसन्धायाह
तव चेतसि वर्तेऽहमिति वाताऽपि दुर्लभा । मच्चित्ते वर्त्तसे चेत्त्वमलमन्येन केनचित् ॥१॥
तवेति-भगवन् !, तव = वीतरागस्य केवलज्ञानादिमतः चेतसि-मनसि, अहम् त्वदुपासकः, वर्त्त-स्थितःस्याम् , त्वन्मानसज्ञानविषयोऽहं भवेयमित्यर्थः । इति एवम्प्रकारा, वार्ता-शब्दमात्रमपि, दुर्लभा अप्राप्या, अवाच्या वा । अपिना स्थितिस्तु दूरे इति सूच्यते । केवलिनो द्रव्यमनसःसत्त्वेऽपि भावमनोऽ. भावात्तत्र स्थितिवारीया अनवसरग्रस्तत्वादिति भावः । ननु तर्हि कथं तवोपकार इति चेन्न । तदाह-चेत् यदि. त्वम् वीतरागः, मचिते, वर्त्तसे, तर्हि, अन्येन-देवान्तरेण, केनचित्-रागादिपरवशतया निकृष्टतयाऽनिर्देष्टव्यनाम्ना,अलम्=पर्याप्तम् , न प्रयोजनमित्यर्थः । त्वत्स्मरणादेवाऽसाधारणफलावाप्ते निकृष्टफलप्रदेन देवान्तरेण न मम प्रयोजनमिति सारार्थः । यत उत्कृष्टलाभः, स एव स्मर्तव्यः, निकृष्टलाभाय प्रयासस्य मुग्धबुद्धिविजम्भितस्वादिति भावः । यद्वा तव स्मरणमेव प्रार्थये, तेनैव सर्वेष्टसिद्धेः । एवञ्च विशिष्य फलान्तरप्रार्थनं निष्प्रयोजनकमेवेत्यर्थों बोध्यः ॥१॥
Jain Education International 2010_For Private & Personal Use Only
www.jainelibrary.org