________________
१५८
श्रीवीतरागस्तवेऽष्टादशः प्रकाशः
रिणः, भवांस्त्वलौकिक इति न दृष्टान्तसहायेन भवत्परिचयः शक्य! इति तथा प्रयतमानाः परेऽज्ञा निष्फलायासा इति शोचनीया एवेति भावः ॥ ९ ॥
व्यतिरेकमुखेन वैलक्षण्यं प्रकटयन् भगवतोऽज्ञेनाऽपरिचे-
यत्वं स्वयमाह
क्रोधलोभभयाक्रान्तं जगदस्माद्विलक्षणः । न गोचरो मृदुधियां वीतराग ! कथञ्चन ॥१०॥ इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितश्रीवीतरागस्तवेऽष्टादशः प्रकाशः ॥ १८ ॥
J
क्रोधेति — वीतराग !, जगत् = सर्व एव जन्तुः, क्रोधलोभभयाक्रान्तम् = क्रोधेन लोभेन भयेन चाक्रान्तं ग्रस्तम्, क्रोधादिपरवशो लोक इत्यर्थः । अस्मात् = क्रोधादिपरवशाज्जगतः, विलक्षणः = निष्कषायत्वाद्विभिन्नलक्षण:, त्वमित्यर्थलभ्यते । मृदुधियाम् = लौकिकबुद्धिमत्वादल्पज्ञानाम् कथञ्चन - केनाऽपि प्रकारेण, न, गोचरः - विषयः, लौकिक बुद्धिमतां परोक्षोऽसि । लौकिका लौकिकगुणानेव विषयीकर्तुमर्हति न त्वलौकिकगुणम्, भवांस्त्वलौकिक इत्यत एव तेषामविषय इति भवतस्तादृशो गुण एव तेषां भवत्परिचयेऽन्तराय इति ते दयनीया एव न तूपालभ्या इति भावः ॥ १० ॥
इति श्रीकीर्तिचन्द्रविजयगणिविरचितायां श्रीवीतरागस्तवकीर्तिकलाख्यायां व्याख्यायामष्टादशः प्रकाशः ॥ १८ ॥
Jain Education International 2010_dor Private & Personal Use Only
www.jainelibrary.org