Book Title: Kirtikala
Author(s): Hemchandracharya, Munichandrasuri
Publisher: Sha Bhailal Ambalal Petladwala

View full book text
Previous | Next

Page 161
________________ १४८ श्रीवीतरागस्तवे सप्तदशः प्रकाश: जगद्धितकृदाश्रितस्य जगद्धितमतिरेवाऽनुगुणेति भावः । एतेन स्वस्य जगबन्धुता सूचिता ॥६॥ । तदेवं सर्वथा स्वस्थो ममत्वं त्यजन् स्वस्याऽनुद्वेगमाह - एकोऽहं नास्ति मे कश्चिन्न चाऽहमपि कस्यचित् । त्वदमिशरणस्थस्य मम दैन्यं न किञ्चन ॥७॥ एक इति-भगवन् !, अहम् , एकः असहायः, ममत्वरहित इति यावत् । तत्र हेतुमाह-मे, कश्चित , नास्ति, यत्र मम 'ममे' तिव्यवहर्त्तव्यम् , तादृशः कोऽपि नास्ति, सर्वस्यैव स्वकर्मवशगत्वात्स्वतन्त्रत्वान्ममेतिव्यवहारस्य मिथ्यात्वात् । एवञ्च तादृशं कल्पितमपि ममत्वं मम क्वापि नास्ति । एतेन स्वस्य निःसङ्गता प्रतिपादिता । ननु भवतो न कश्चिदित्यस्तु, भवानेव कस्यापि स्यादिति चेत्तदपि नेत्याह - अहमपि, अपिः समुच्चये । कस्यचिन्न । उक्तहेतोरेवेति भावः । नन्वेवमसहायस्य तव दैन्यमापततीति चेन्न, तदाह-त्वद िशरणस्थस्यतवाजी एव शरणं तत्र तिष्ठतीति, तस्य तादृशस्य, त्वदाश्रितस्य । मम, किञ्चन नाममात्रतोऽपि, दैन्यम्-दीनता, अहमसहाय इत्येवंभावः, न = नैवास्ति । जगत्सहायस्त्वमेव मम सहाय इति कुतो नाम दैन्यावसरो मयीति भावः । नहि ममत्वत्यागादहमुद्विग्नः, किन्तु सर्वाश्रयत्वदाश्रितो नितरां स्वस्थ इति हृदयम् ॥७॥ Jain Education International 2010_For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190