Book Title: Kirtikala
Author(s): Hemchandracharya, Munichandrasuri
Publisher: Sha Bhailal Ambalal Petladwala
View full book text
________________
१५४
श्रीवीतर/भस्तवेऽष्टादशः प्रकाशः
गुणाश्रयात्पालयति, शिवस्तमोगुणाश्रयात्संहरति च जगदिति पौराणिकाः । तादृशगुणन्यूनो भवान् । वस्तुतस्तु जगतोऽनाद्यनन्तः तया तत्सर्वमलीकमेवेति कथं कोऽपि सावद्यगुणवान् भवतु ! । वीतरागस्य तथाप्रवृत्तेरननुगुणत्वादिति वीतरागस्योत्तमत्वमेवाति । तथा - लास्य हास्यगीतादिविप्लवोपप्लुतस्थितिः = लास्यं नृत्यं, शिवादेस्ताण्डवादिः, हास्यं हास:, शिवादेरेवाऽट्टहासादिः, गीतादि च कृष्णादेर्वेणुवादनादिना प्रसिद्धम् । तेषां विप्लवेन व्यसनेन गर्हणीयप्रवृत्त्या नटाद्युचितयोपप्लुता विसंस्थूला स्थितिर्यस्य स तादृशः । लास्यादिभिः कृत्वो पहसनीयचरित इति यावत् । न । भगवतस्तु तदवलोकनेऽपि निवृत्तिः, दूरे तथाविधानम् । पामरजनकृत्यस्यो - तमेऽसम्भवादिति तादृशगुणन्यूनता भगवत उत्तमत्वमेवावगमयतीति भावः 114 11
तदेतावता देवान्तरवैलक्षण्यमाह
तदेवं सर्वदेवेभ्यः सर्वथा त्वं विलक्षणः । देवत्वेन प्रतिष्ठाप्यः कथं नाम परीक्षकैः ९ ॥ ६ ॥
तदेवमिति — भगवन्, तत् = तस्मात्तादृशगुणहीनत्वाद्धेतोः, एवम् = उक्तप्रकारेण, त्वम् = वीतरागः, सर्वदेवेभ्यः = परेष्टेभ्यः शिवादिभ्यः सर्वेभ्यो देवेभ्यः, सर्वथा - सर्वैः प्रकारैः, विलक्षण: = विभिन्नधर्मी, तदीयगुणानामेकस्याप्यभावादिति भावः । ननु तेन किमित्यपेक्षायामाह – परीक्षकैः = साधकबाधकदृष्टान्तादिप्रमाणैर्वस्तुत
Jain Education International 2010_dor Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190