Book Title: Kirtikala
Author(s): Hemchandracharya, Munichandrasuri
Publisher: Sha Bhailal Ambalal Petladwala

View full book text
Previous | Next

Page 170
________________ कीर्तिकलाव्याख्याविभूषितः १५७ स्तुतिव्याजेनाऽपि हीनगुणत्वप्रतिपादनं सदाचारविरुद्धत्वादविनय एवेति भावः, “ धृष्टो वियात" इत्यमरः, अतएव, कृतम् = पर्याप्तम् , न करणीयम् , अनुचितत्वात् , पूज्यपूजाव्यतिक्रमाऽनुषङ्गादिति भावः ॥८॥ नन्वेवं परेष्टं देवलक्षणं न सम्मतं तर्हि स्वयमुच्यतामित्याह-- यदेव सर्वसंसारिजन्तुरूपविलक्षणाम् । परीक्षन्तां कृतधियस्तदेव तव लक्षणम् ॥९॥ यदेवेति----भगवन !, कृतधियः-धीमन्तः, यत् यत्प्रकारमेव, सर्वसंसारिजन्तुरूपविलक्षणम् = सर्वेषां संसारिणां जन्तुनामेकेन्द्रियादारभ्य देवपर्यन्तानां जीवानां रूपतो लक्षणाद् विलक्षणमलौकिकत्वाद्विभिन्नम् , लक्षणम्-असाधारणो धर्मः, सहजाद्यति-- शयादिरूपं पूर्व विस्तारेण प्रतिपादितमिति तात्पर्यम् , तादृशस्य धर्मस्य लोकलक्षणविलक्षणत्वात् । परेष्टदेवानां तु लक्षणं लौकिकमेव, लोके तादृशगुणानां साकल्येन तारतम्यत उपलब्धेरिति भावः । तव-लोकोत्तमस्य भवतो वीतरागस्य, तदेव-तत्प्रकारमेव, लक्षणम् , उभयत्रैवकारःप्रकारान्तरनिवृत्त्यर्थो यत्तत्पदपरामृश्ययोरत्यन्ताऽभेदप्रतिपादनार्थश्च । परीक्षन्ताम् साधकबाधकप्रमाणैनिश्चिन्वन्तु । एवञ्च सर्वसंसारिरूपविलक्षणत्वमेव देवलक्षणम् । प्रकारान्तरं तु संसारिजीवलक्षणं कथञ्चित् । नतु वीतरागदेवलक्षणमित्यन्ये देवाः संसा Jain Education International 2010_Bor Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190